________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२५९
[ ललाटिका ललाटमण्डनम् ] ललाटे भवा = ललाटिका । अनेन कल्प्र० → क । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ । ललाटमण्डनम् ।
[कर्ण्यम् ] कर्णे भवं = कर्ण्यम् । 'दिगादि-देहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[ललाट्यम् ] ललाटे भवं = ललाट्यम् । 'दिगादि-देहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
लकारः स्त्रीत्वार्थः ॥छ।
तस्य व्याख्याने च ग्रन्थात् ॥ ६।३।१४२ ॥
[ तस्य ] तस्य पञ्चमी ङसि । सूत्रत्वाल्लुप् । [व्याख्याने] व्याख्यान सप्तमी ङि ।
[च] च प्रथमा सि । [ग्रन्थात् ] ग्रन्थ पञ्चमी ङसि । ग्रन्थः शब्दसन्दर्भः रचना, स व्याख्यायतेऽवयवशः कथ्यते येन तद् व्याख्यानम् ।
[कार्त्तम् ] कृत् । कृतां व्याख्यानं, कृत्सु भवं वा = कार्तम् । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धि: आर् ।
[प्रातिपदिकीयम् ] प्रतीतं पदं = प्रतिपदम्, तत् प्रयोजनमस्य = प्रातिपदिकम् । प्रातिपदिकस्य व्याख्यानं, प्रातिपदिके भवं वा = प्रातिपदिकीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[पाटलिपुत्रस्य व्याख्यानी सुकोसला] पाटलिपुत्रमेव । 'रोपान्त्यात्' (६।३।४२) अकञ्प्र० । द्विगोरनपत्ये यस्वराऽऽदेर्लुबद्विः (६।१।२४) अकञ्लुप् । संनिवेशमिति सुकोशलयं(या) प्रतिच्छन्दकभूतया व्याख्यायते, न तु पाटलिपुत्रं ग्रन्थ इत्युत्तरेणापवादिक इकण् न भवति ॥छ।।।
प्रायो बहुस्वरादिकण् ॥ ६।३।१४३ ॥ [ प्रायः ] प्रायस् । अम् । 'अव्ययस्य' (३।२।७) लुप् । [ बहुस्वरात्] बहवः स्वरा यत्र = बहुस्वरस्तस्मात् । [इकण्] इकण् प्रथमा सि ।
[षात्वणत्विकम् ] षत्वणत्वयोर्व्याख्यानं-तत्र भवं वा = षात्वणत्विकम् । विरोधित्वान्न समाहूति । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[नातानतिकम् ] नतश्च अनतश्च = नतानतौ । अल्पस्वरत्वान्नतस्य पूर्वनिपातः । नतानतयोर्व्याख्यानं-तत्र भवं वा = नातानतिकम् । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णवर्णस्य' (७४।६८) अलुक् । सि-अम् । उदात्तानुदात्तयोः स्वरयोरेते नतानतसंज्ञे ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [259]