________________
२५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[औपनीविकं ग्रीवादाम ] नीव्या उप-समीपम् = उपनीवि । प्रायेणोपनीवि भवति = औपनीविकम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । ग्रीवा माला ।
[औपनीविकं कार्षापणम् ] नीव्याः समीपम् = उपनीवि । 'क्लीबे' (२।४।९७) ह्रस्वः । प्रायेणोपनीवि भवति = औपनीविकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । कार्षापणम्-आभरणविशेषम् । _ [औपकर्णिकः सूचकः] कर्णयोः समीपम् = उपकर्णम् । प्रायेणोपकर्णं भवति = औपकर्णिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । सूचको दुर्जनः । 'सूचण् पैशून्ये' (१८५४) सूच् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । सूचयति पैशून्यमिति सूचकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिच्लुक् ।
[औपजानवं मांसम् ] उपजानु नित्यं भवति = औपजानवम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । मांसम् ।
[औपजानवं गडु] उपजानु नित्यं भवति = औपजानवम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । सि-अम् । गडु ॥छ।।
रूढावन्तःपुरादिकः ॥ ६।३।१४० ।। [रूढौ] रूढि सप्तमी ङि । [अन्तःपुरात् ] अन्तःपुर पञ्चमी ङसि । [इकः] इक प्रथमा सि । एकपुरुषपरिग्रहे स्त्रीसमुदाये, उपचारात्तन्निवासेऽपि अन्तःपुरशब्दो रूढः ।
[अन्तःपुरिका स्त्री] अन्तर्मध्ये पुरः = अन्तःपुरम् । 'अव्ययं प्रवृद्धादिभिः' (३।११४८) समासः । अन्तःपुरे भवा = अन्तःपुरिका । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । स्त्री ।
[आन्तःपुरः] पुरस्यान्तर्गतमन्तःपुरम् । यथा अन्तर्गतोऽङ्गुलेः = अन्तरङ्गुलः । 'संख्या-ऽव्ययादगुलेः' (७।३।१२४) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलुक् । नखः । अन्तःपुरे भवः = आन्तःपुरः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[आन्तःपुरिकः] पुरस्यान्तः = अन्तःपुरम् । 'पारे-मध्ये-ऽग्रे-ऽन्तः षष्ठ्या वा' (३।१।३०) इत्यादिना समासः । अन्तःपुरे भवः = आन्तःपुरिकः । 'अन्तःपूर्वादिकण्' (६।३।१३७) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
कर्ण-ललाटात् कल् ॥ ६।३।१४१ ।। [कर्णललाटात् ] कर्णश्च ललाटश्च = कर्णललाटम्, तस्मात् । [कल्] कल् प्रथमा सि ।
[कर्णिका कर्णाभरणविशेषः पद्माद्यवयवश्च] कर्णे भवा = कर्णिका । अनेन कल्प्र० → क । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ । कर्णाभरणविशेषः पद्माद्यवयवश्च ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [258]|