________________
२५२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[माध्यंदिना उद्गायन्ति] मध्य । मध्ये भवाः = माध्यंदिनाः । अनेन दिनप्र० → दिन - मोऽन्तश्च । प्र० जस् । उत् कैं (३६) - 'गैं शब्दे' (३७) गै। वर्त्तः अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'एदैतोऽयाय' (१।२।२३) आय् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । यद्यपि सामान्येन मध्यशब्दाद्दिनणुक्तस्तथापि दिनण्प्रत्यये सति शब्दशक्ति स्वाभाव्या(त्) मध्यशाखोद्भवा उच्यन्ते ।
[माध्यमः] मध्ये भवः = माध्यमः । अनेन णप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[ मध्यमीयः] मध्ये भवः = मध्यमीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ मध्यंदिनः ] मध्ये भवः = मध्यंदिनः । मतान्तरेऽनेन दिनप्र०-मोऽन्तश्च ॥छ।।
जिह्वामूला-ऽङ्गुलेश्चयः ॥ ६।३।१२७ ॥ [जिह्वामूलाऽङ्गुलेः ] जिह्वामूलश्च अङ्गुलिश्च = जिह्वामूलाऽङ्गुलि, तस्मात् । [च] च प्रथमा सि । [ईयः] ईय प्रथमा सि । 'दिगादि-देहांशाद यः' (६।३।१२४) इत्यादिना यापवादः । [जिह्वामूलीयः ] जिह्वामूले भवः = जिह्वामूलीयः । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । [अङ्गुलीयः ] अङ्गुलौ भवः = अङ्गुलीयः । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) इलुक् । [मध्यीयः] मध्ये भवः = मध्यीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । चकारो मध्यशब्दानुकर्षणार्थ-मागमाबाधनार्थम् (मागमाभावार्थम्) ॥छ।
वर्गान्तात् ॥ ६।३।१२८ ॥ [वर्गान्तात् ] वर्गो अन्ते यस्य सः = वर्गान्तः, तस्मात् ।
[कवर्गीयो वर्णः] कवर्गे भवः = कवर्गीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । वर्णः ।
[पवर्गीयो वर्णः] पवर्गे भवः = पवर्गीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । वर्णः ॥छ।।
ईन-यौ चाऽशब्दे ॥ ६।३।१२९ ।। [ईनयौ] ईनश्च यश्च = ईनयौ । [च] च प्रथमा सि । [अशब्दे ] न शब्दोऽशब्दः, तस्मिन् = अशब्दे । 'नजत्' (३।२।१२५) न० → अ० ।
[भरतवर्गीणः, भरतवर्यः, भरतवर्गीयः] भरतवर्ग । भरतवर्गे भवः = भरतवर्गीणः, भरतवर्यः, भरतवर्गीयः । अनेन ईन-य-ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण । भरतपक्ष इत्यर्थः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st • 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [252]