________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२४३
[रेवती] रेवत । 'रेवत-रोहिणाद् भे' (२।४।२६) ङी । रेवत्या चन्द्रयुक्तया युक्तः कालोऽपि = रेवती । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । रेवत्यां जाता = रेवती । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[रोहिणी] रोहिण । 'रेवत-रोहिणाद् भे' (२।४।२६) ङी । रोहिण्या चन्द्रयुक्तया युक्तः कालोऽपि = रोहिणी । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । रोहिण्यां जाता = रोहिणी । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् ।
[चैत्रः] चित्रायां जातः = चैत्रः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[रैवतः] रेवत्यां जातः = रैवतः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[रौहिणः] रोहिण्यां जातः = रौहिणः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
बहुलमन्येभ्यः ॥ ६।३।१०९ ॥ [बहुलम् ] 'बहुङ् वृद्धौ' (८७३) बह् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । बंहतेऽस्मात्कार्यजातमिति बहुलम् । 'स्था-वङ्कि-बंहि-बिन्दिभ्यः किन्नलुक् च' (उणा० ४८६) बहुलनिपात्यते । सि-अम् ।
[अन्येभ्यः] अन्य पञ्चमी भ्यस् ।
[अभिजित्, आभिजितः] अभि 'जिं अभिभवे' (८) जि । अभिजयतीति अभिजित् । 'क्विप्' (५।१।१४८) क्विप्र० । 'इस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् । अभिजिता चन्द्रयुक्तया युक्तः कालोऽपि = अभिजित् । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । अभिजिति जातोऽभिजित् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन अण्लुप् । यत्र न लुप् तत्र वृद्धिः ।।
[अश्वयुक्, आश्वयुजः] अश्वयुजा चन्द्रयुक्तया युक्तः कालोऽपि = अश्वयुक् । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । अश्वयुजि जातः = अश्वयुक् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन अण्लुप् । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (१।३।५१) ग० → क० । यत्राण न लुप् तत्र वृद्धिः । प्रथमा सि ।
[शतभिषक्, शातभिषजः] शतभिषजा चन्द्रयुक्तया युक्तः कालोऽपि शतभिषक् । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । शतभिषजि जातः = शतभिषक् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन अण्लुप् । प्रथमा सि । 'दीर्घझ्याब' (१।४।४५) सिलुक् । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'विरामे वा' (११३५१) ग० → क० । यत्राण लुप् तत्र न वृद्धिः ।
'वा जाते द्विः' (६।२।१३७) इति विक्ल्पेनाणो डित्त्वादन्त्यस्वरादिलोपः । अत्र न जाता लोपः ।
[कृत्तिकः, कार्तिकः] कृत्तिकाभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = कृत्तिका । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । कृत्तिकासु जातः = कृत्तिकः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । 'ङ्यादेhण०' (२।४।९५) आप्निवृत्तिः । यत्राण न लुप् तत्र वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [243]