________________
२३२
॥छ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । सायं-चिरं-प्राह्णे-प्रगे इत्यव्ययेभ्योऽव्ययादित्येव सिद्धे साय - चिर-प्राण-प्रगशब्देभ्यस्तनविधानं कालेकण्बाधनार्थम्
भर्तु सन्ध्यादेरण् || ६|३८९ ॥
[ भर्तुसन्ध्यादेः ] भं च ऋतुश्च सन्ध्यादिश्च = भर्तुसन्ध्यादि, तस्मात् ।
[ अण् ] अण् प्रथमा सि ।
'वर्षा कालेभ्यः' (६१३३८० ) इत्यनेन इकणो ऽपवादः ।
[ पौष: ] पुष्येण चन्द्रयुक्तेन युक्तः कालोऽपि = पुष्यः । 'चन्द्रयुक्तात् काले० ' ( ६।२२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । पुष्ये भवः = पौषः । अनेन अण्प्र० । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'तिष्य - पुष्ययोर्भाऽणि' (२।४।९०) यलुक् ।
[तैष: ] तिष्येण चन्द्रयुक्तेन युक्तः कालोऽपि तिष्यः । 'चन्द्रयुक्तात् काले०' (६१२२६) अन्प्र० । “लुप् त्वप्रयुक्ते" अणूलुप् । तिष्ये भवः = तैषः । अनेन अण्प्र० । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तिष्य - पुष्ययोर्भाऽणि' (२।४।९०) यलुक् ।
।
[ आश्विनः] अश्विन् । अश्वाः सन्त्यस्याम् - अश्विनी । मत्वर्थीय इन् । 'गौरादिभ्यो मुख्यान्ङीः ' (२|४|१९) ङी । अश्विन्या चन्द्रयुक्तया युक्तः कालोऽपि अश्विनी 'चन्द्रयुक्तात् काले०' (६।२२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । ‘यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी - सूच्यो:' ( २।४।९५ ) ङीनिवृत्तिः । अश्विन्यां भवः = आश्विनः । अनेन अण्प्र० । वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् ।
=
=
[ रौहिणः] रोहिण 'रेवत- रोहिणाद् भे' (२४।२६ ) ङी रोहिण्या चन्द्रयुक्तया युक्तः कालोऽपि रोहिणी । 'चन्द्रयुक्तात् काले०' (६२२६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । 'यादेर्गौणस्याक्विप० ' (२२४।९५ ) ङीनिवृत्तिः । पुनरेव ङी । रोहिण्यां भवः रौहिणः । अनेन अण्प्र०
अ
वृद्धिः औ 'अवर्णेवर्णस्य' (७४६८) ईलुक् ।
1
=
[ सौवातः ] स्वात्या चन्द्रयुक्तया युक्तः कालोऽपि स्वाति ( : ) । 'चन्द्रयुक्तात् काले०' (६२२६) अण्प्र० । लुप् । स्वातौ भवः = सौवातः । अनेन अण्प्र० अ 'लोकात् ' (१११ ३) स् पाठउ विश्लेषिय 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) औ । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् ।
I
=
=
ऋतु [ग्रैष्मः ] ग्रसते रसो रसान् ग्रीष्मः । ग्रीष्मे भवः = ग्रैष्मः । अनेन अण्प्र० अ । वृद्धिः ऐ । 'अवर्णवर्णस्य' (७४।६८) अलुक् ।
=
[ शैशिर: ] शिशिरे भवः शैशिरः अनेन अणूप्र अ वृद्धिः ऐ 'अवर्णेवर्णस्य' (७१४।६८) अलुक् । । → । ।
वासन्तः अनेन अण्प्र० अ
[ वासन्तः ] वसन्ते भव: [ पूर्वग्रैष्मः ] पूर्वग्रीष्मे भवः । यद्वा पूर्वस्मिन् ग्रीष्मे भवः = (७|४|१४) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । अनेन अप्प्र अ अंशादृतो: '
पूर्वग्रैष्मः
[अपरशैशिर:] अपरस्मिन् शिशिरे भवः = अपरशैशिरः । अनेन अण्प्र० अ 'अंशादृतो:' ( ७|४|१४) । उत्तरपदवृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
सन्ध्यादि - [ सान्ध्यः ] सन्ध्यायां भवः = सान्ध्यः । अनेन अण्प्र० अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [232]