________________
षष्ठाध्यायस्य तृतीयः पादः ॥
पूर्वाह्णा-ऽपराह्णात् तनट् ॥ ६।३।८७ ।। [पूर्वाणाऽपराणात् ] पूर्वाह्णश्च अपराह्णश्च = पूर्वाह्णाऽपराणम्, तस्मात् । [तनट ] तनट प्रथमा सि ।
[पूर्वाह्णतनः, पूर्वाणतनः] पूर्वमह्नः = पूर्वाणः । 'सर्वां-ऽश-संख्या०' (७।३।११८) अट्समासान्त:अह्नदेशश्च । 'अतोऽह्नस्य' (२।३।७३) न० → ण । पूर्वाणे जातो भवो वा = पूर्वाह्णतनः, पूर्वाह्णतनः । अनेन तनटप्र० → तन । 'कालात् तन-तर-तम-काले' (३।२।२४) इत्यनेन वा सप्तम्या अलुप्समासः ।
[अपराह्णतनः, अपराणतनः] अपरमह्नः = अपराणः । 'सर्वां-ऽश-संख्या-अव्ययात्' (७३।११८) अट्समासान्तः-अह्नदेशश्च । 'अतोऽह्नस्य' (२।३।७३) न० → ण० । अपराह्ण भवः = अपराह्णतनः, अपराह्णतनः । अनेन तनटप्र० → तन । 'कालात् तन०' (३।२।२४) इत्यनेन वा सप्तम्या अलुप्समासः । ___ [पूर्वाह्णतनः, अपराह्णतनः, पौर्वाह्निकः, आपराह्निकः, पूर्वाह्णतनी, अपराह्णतनी] पूर्वाह्ण जयी = पूर्वाह्णतनः । अपराह्ण जयी = अपराह्णतनः । अनेन तनटप्र० । अत्र जयिनि वाच्ये कालात् तन-तरे तत्र व्यवस्थितविभाषाविज्ञानात् नित्यं सप्तम्या लुप् । एवम्-पौर्वाणिकः, आपराणिकः । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धि: औ-आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । टकारो ङ्यर्थःयथा 'अणजेयेकण०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
सायं-चिरं-प्राहणे-प्रगे-ऽव्ययात् ।। ६।३।८८ ॥ [सायंचिरंप्राणेप्रगेऽव्ययात् ] सायं च चिरं च प्राणेश्च प्रगेश्च अव्ययं च = सायंचिरंप्राणेप्रगेऽव्ययम्, तस्मात् । [सायंतनम् ] साये भवं = सायंतनम् । अनेन तनटप्र० → तन । अत एव निर्देशान्मान्तत्वं निपात्यते । [चिरंतनम् ] चिरे भवं = चिरंतनम् । अनेन तनटप्र० → तन । अत एव निर्देशान्मान्तत्वं निपात्यते ।
[प्राहणेतनम् ] पाहणे भवं = प्राणेतनम् । अनेन तनट्प्र० → तन । अत्र एकारान्तत्वनिपातनम् । 'कालात् तनतर-तम-काले' (३।२।२४) इत्यादिना समासः ।
[प्रगेतनम् ] प्रगे भवं = प्रगेतनम् । अनेन तनटप्र० → तन । अत्र एकारान्तत्वनिपातनम् । 'कालात् तन०' (३।२।२४) इत्यादिना समासः ।।
[दिवातनम् ] दिवा भवं = दिवातनम् । [दोषातनम् ] दोषा भवं = दोषातनम् । [नक्तंतनम् ] नक्तं भवं = नक्तंतनम् । [पुनस्तनम् ] पुनर्भवं = पुनस्तनम् । [प्रातस्तनम् ] प्रातर्भवं = प्रातस्तनम् । [प्राक्तनम् ] प्राक् भवं = प्राक्तनम् । सर्वत्र अनेन तनटप्र० → तन । सि-अम् ।
[सौवम् ] स्वर् । स्वर्भवं = सौवम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'लोकात्' (१।१।३) स् पाठउ विश्लेषियइ । 'द्वारादेः' (७।४।६) औ । 'प्रायोऽव्ययस्य' (७।४।६५) अलुक् । सि-अम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [231]