________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२०७
[ नापितवास्तुकः] नापितस्य वास्तौ जातः = नापितवास्तुकः । अनेन इकण्प्र० → इक । वृद्धिः । 'ऋवर्णोवर्ण०' (७।४।७१) इकारलोपः ।
[माल्लवास्तवः] मल्लवास्तुः प्राग्ग्रामः, तत्र जातः = माल्लवास्तवः । 'जाते' (६।३।९८) अण्प्र० → अ । वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् ॥छ।।
ईतोऽकञ् ॥ ६।३।४१ ॥ [ईतः] ईत् पञ्चमी ङसि ।
[अकञ्] अकञ् प्रथमा सि ।
[काकन्दकः] ककन्देन निवृत्ता = काकन्दी । 'तेन निवृत्ते च' (६।२।७१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । काकन्यां भवः = काकन्दकः । अनेन अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) ईलोपः ।
[माकन्दकः] मकन्देन निवृत्ता = माकन्दी । 'तेन निवृत्ते च' (६।२।७१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । म(मा)कन्द्यां भवः = माकन्दकः । अनेन अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः ।
[दात्तामित्रीयः] दत्तायां मित्रं = दत्तामित्रम् । दत्तामित्रेण निवृत्ता = दात्तामित्री । 'तेन निवृत्ते च' (६।२०७१) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण्०' (२।४।२०) ङी । दात्तामित्र्यां भवः = दात्तामित्रीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७४/६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० सर्वत्र ॥छ।।
रोपान्त्यात् ।। ६।३।४२ ॥ [रोपान्त्यात् ] र उपान्त्ये यस्य सः = रोपान्त्यः, तस्मात् ।
[पाटलिपुत्रकः] पाटलिपुत्रे भवः = पाटलिपुत्रकः । अनेन अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'प्राग् देशे' (६।१।१०) इति दुसंज्ञा ।
[ऐकचक्रकः] एकचक्रे भवः = ऐकचक्रकः । अनेन अकप्र० → अक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात् ।। ६।३।४३ ।। [प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ] प्रस्थश्च पुरश्च वहश्च = प्रस्थपुरवहाः । प्रस्थपुरवहा अन्ते यस्य सः = प्रस्थपुरवहान्तः । य उपान्त्ये यस्य सः = योपान्त्यः । धन्वार्थो यस्य सः = धन्वार्थः । प्रस्थपुरवहान्तश्च योपान्त्यश्च धन्वार्थश्च = प्रस्थपुरवहान्तयोपान्त्यधन्वार्थम्, तस्मात् ।
धन्वन्शब्दो मरुदेशवाची ।
प्रस्थान्त- [मालाप्रस्थकः] मालासु प्रतिष्ठतीति(ते) = मालाप्रस्थः । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत् पुसि०' (४।३।९४) आलुक् । मालाप्रस्थे भवः = मालाप्रस्थकः । अनेन अकञ्प्र० → अक । 'अवर्णवर्णस्य' (७/४/६८) अलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [207]