________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२०५
(२।४।१८) आप्प्र० → आ । 'ह्वेग स्पर्धा-शब्दयोः' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा, आपूर्व० । आह्वयन्ति = आह्वाः । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्०' (४।३।९४) आलुक् । जलतीति जालः । 'वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः' (५।१।६२) णप्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । आह्वानां जालम् = आह्वजालम्, तत्र भवो जातो वा । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । एवम्-आह्वजालीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[सौदर्शनिकः, सौदर्शनिका, सौदर्शनिकी, सौदर्शनीयः] शोभनं दर्शनं यस्य सः = सुदर्शनः, तस्यायं = सौदर्शनः । 'तस्यदेम्' (६।३।१६०) अण्प्र० । सुदर्शना देवता अस्य । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः
औ । सुदर्शनस्य निवासो वा । 'निवासा-ऽदूरभव इति देशे नाम्नि' (६।२।६९) अण्प्र० → अ । सुदर्शनश्चक्रं स देवताऽस्येति वा । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः औ । सौदर्शने भव:-भवा वा = सौदर्शनिकः, सौदर्शनिका, सौदर्शनिकी । अनेन णिक-इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण्' (२।४।२०) ङी । एवम्-सौदर्शनीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ॥छ।।
वृजि-मद्राद् देशात् कः ॥ ६।३।३८ ।। [वृजिमद्रात् ] वृजिश्च मद्रश्च = वृजिमद्रम्, तस्मात् । [ देशात् ] देश पञ्चमी ङसि । [कः] क प्रथमा सि । राष्ट्रा 'बहुविषयेभ्यः' (६।३।४५) अकञोऽपवादः । [वृजिकः] वृजिषु भवः = वृजिकः । अनेन कप्र० । [ मद्रकः ] मद्रेषु भवः = मद्रकः । अनेन कप्र० । [सुमद्रकः] शोभनेषु मद्रेषु भवः = सुमद्रकः । [ सर्वमद्रकः ] सर्वेषु मद्रेषु भवः = सर्वमद्रकः । [अर्द्धमद्रकः] अर्द्ध मद्राणां = अर्द्धमद्राः । अर्द्धमद्रेषु भवः = अर्द्धमद्रकः । [ सुवृजिकः ] शोभनेषु वृजिषु भवः = सुवृजिकः । [ सर्ववृजिकः ] सर्वेषु वृजिषु भवः = सर्ववृजिकः । [अर्द्धवृजिकः] अर्द्धषु वृजिषु भवः = अर्द्धवृजिकः । [ पूर्ववृजिकः] पूर्वेषु वृजिषु भवः = पूर्ववृजिकः । [ अपरवृजिकः] अपरेषु वृजिषु भवः = अपरवृजिकः । सर्वत्र अनेन कप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[वार्जः] वृजेरपत्यं = वार्जः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० , अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [205]