________________
२०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[स्कौनगरिकः, स्कौनगरिका, स्कौनगरिकी] स्कोनगरे भवः-भवा वा = स्कौनगरिकः, स्कौनगरिका, स्कौनगरिकी । अनेन णिक-इकण्प्र० → इक । शेषं पूर्ववत् ।
[नापितवास्तुकः] नापितानां वास्तु = नापितवास्तु, तत्र भवो जातो वा = नापितवास्तुकः । “उवर्णादिकण्' (६।३।३९) इकण्प्र० → इक । वृद्धिः । 'ऋवर्णोवर्ण०' (७।४।७१) इलोपः ।
[वातानुप्रस्थकः] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) स्था । 'निमित्ताभावे०' (न्या० सं० वक्ष० (१)/सूत्र(२९)) स्था, अनु-प्रपूर्व० । अनुप्रतिष्ठन्ते = अनुप्रस्थः । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत्-पुसि०' (४।३।९४) आलुक । यद्वा प्रस्थं अनुगतः = अनुप्रस्थः । वातस्य अनुप्रस्थः = तस्मिन् भवः = वातानुप्रस्थकः । 'प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात्' (६।३।४३) अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[नान्दीपुरकः] नन्दीपुरे भवः = नान्दीपुरकः । 'प्रस्थ-पुर०' (६।३।४३) अकञ्प्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[कौक्कुटीवहकः] कुक्कुट । कुक्कुटस्येयं = कौक्कुटी । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'अणजेयेकण्' (२।४।२०) ङी । कु(कौ)कुट्या वहः, तत्र भवः = कु(कौ) कुटीवहकः । 'प्रस्थ-पुर-वहान्त-योपान्त्य-धन्वार्थात्' (६।३।४३) अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[दासरूप्यकः] दास 'रूपण रूपक्रियायाम्' (१८९०) रूप् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । दासेन रूप्यते = दासरूप्यः । 'य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । दासरूप्ये भवः = दासरूप्यकः । 'प्रस्थ-पुर-वहान्त०' (६।३।४३) अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[सौसुकीयः] सुसुका देवताऽस्य = सौसुकः । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । सौसुके भवः । 'क-खोपान्त्य०' (६।३।५९) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[मौजीयम् ] मुञ्जा अत्रास्ति = मौञ्जम् । 'तदत्रास्ति' (६।२७०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । मौजे भवं = मौञ्जीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[दैवदत्तः] देवदत्तं नाम वाहीकग्रामः, तत्र जातः = दैवदत्तः । 'जाते' (६।३।९८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।।
वोशीनरेषु ॥ ६।३।३७ ॥ [वा] वा प्रथमा सि । [उशीनरेषु ] उशीनर सप्तमी सुप् ।
[आह्वजालिकः, आह्वजालिका, आह्वजालिकी, आह्वजालीयः] आह्वजालि । आह्वजालिषु भवः-भवा वा = आह्वजालिकः, आह्वजालिका । अनेन णिकप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । द्वितीये 'आत्'
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st • 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[204]