________________
२०२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[क्रोधकालिका, क्रोधकालिकी] क्रोधस्य कालः = क्रोधकालः । क्रोधकाले भवा = क्रौधकालिका, क्रौधकालिकी ।
[और्ध्वकालिका, और्ध्वकालिकी] ऊर्ध्वकाल मांडणी । कालादूर्ध्वम् = ऊर्ध्वकालः । ऊर्ध्वकाले भवा = और्ध्वकालिका, और्ध्वकालिकी ।
[पौर्वकालिका, पौर्वकालिकी] पूर्वा(वः) कालोऽस्य सः = पूर्वकालः। पूर्वकाले भवा = पौर्वकालिका, पौर्वकालिकी ।
[ तात्कालिका, तात्कालिकी ] ता(त)त्काले भवा = तात्कालिका, तात्कालिकी ।
[क्रौरकालिका, क्रौरकालिकी] क्रूरः कालोऽस्य सः = क्रूरकालः । क्रूरकाले भवा = क्रौरकालिका, क्रौरकालिकी । अनेन णिक-इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । व्यादयः प्रयोगगम्याः ॥छ।।
काश्यादेः ॥ ६।३।३५ ॥ [काश्यादेः ] काशिरादिर्यस्य सः = काश्यादिः तस्मात् ।
[काशिकः, काशिका, काशिकी] काशिषु भव:-भवा वा = काशिकः, काशिका । अनेन णिकप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । एवम् - काशिकी । अनेनैव इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[चैदिकः, चैदिका, चैदिकी] चेदिषु भवः-भवा वा = चैदिकः, चैदिका । अनेन णिकप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) इलोपः । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । एवम्चैदिकी । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।।
[दैवदत्तः] देवदत्तं नाम वाहीकग्रामः, तत्र जातः = दैवदत्तः । 'जाते' (६।३।९८) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
देवदत्तस्य प्राग् देश एव 'प्राग् देशे' (६।१।१०) इत्यनेन दुसंज्ञा, न 'वाहीकेषु०' (६।३।३६) इति न भवति, नाप्युत्तरेण । तत्रापि दोरित्यनुवर्त्तनात् । प्राग्देशेषु तु दुसंज्ञकत्वेन काश्यादित्वाद्भवत्येव
[दैवदत्तिका, दैवदत्तिकी] देवदत्तेषु भवा । अनेन णिक-इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण-नञ्' (२।४।२०) ङी ।
येषां तु काश्यादीनां दुसंज्ञा न संभवति तेषां पाठसामर्थ्याद्भवति ।
[काशीयाश्छात्राः] काशस्यापत्यं = काशिः । 'अत इब्' (६।१।३१) इप्र० → इ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । काशेराचार्यस्य वाराणस्या वा इमे च्छात्राः = काशीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । जस् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[202]