________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२०१
[भोजकटीयः] भोजकटस्यायं = भोजकटीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[साभासन्नयनः] सभासन्नयने भवः = साभासन्नयनः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।
उष्णादिभ्यः कालात् ।। ६।३।३३ ॥ [ उष्णादिभ्यः ] उष्ण आदिर्येषां ते = उष्णादयः, तेभ्यः । [कालात् ] काल पञ्चमी ङसि ।
[ उष्णकालीयः( यम्)] उष्णश्चासौ कालश्च = उष्णकालस्तत्र भवः = उष्णकालीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ॥छ।
व्यादिभ्यो णिकेकणौ ॥ ६।३।३४ ॥ [व्यादिभ्यः] विरादिर्येषां ते = व्यादयः, तेभ्यः । [णिकेकणौ ] णिकश्च इकण् च = णिकेकणौ ।
[वैकालिकः, वैकालिका, वैकालिकी] विरुद्धः कालो विकालस्तत्र भवा = वैकालिका, वैकालिकी । अनेन णिक-इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[आनुकालिकः, आनुकालिका, आनुकालिकी ] अनुरूपः कालोऽनुकालस्तत्र भवा = आनुकालिका, आनुकालिकी । अनेन णिक-इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । द्वितीये 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[धौमकालिका, धौमकालिकी] धूमस्य कालः = धूमकालः । धूमकाले भवा = धौमकालिका, धौमकालिकी । अनेन णिक-इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । द्वितीये 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[ऐदंकालिका, ऐदंकालिकी] अयं चासौ कालश्च = इदंकालः, तत्र भवा = ऐदंकालिका, ऐदंकालिकी । अनेन णिक-इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । द्वितीये 'अणजेयेकण्' (२।४।२०) ङी ।
[आपत्कालिका, आपत्कालिकी] आपदः कालः = आपत्कालः । आपत्काले भवा = आपत्कालिका, आपत्कालिकी । अनेन णिक-इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । शेषं पूर्ववत् ।
[सांपत्कालिका, सांपत्कालिकी] संपदः कालः = संपत्कालः । संपत्काले भवा = सांपत्कालिका, सांपत्कालिकी । अनेन णिक-इकण्प्र० → इक । 'वृद्धि: स्वरे०' (७।४।६८) वृद्धिः आ । शेषं पूर्ववत् ।।
[कोपकालिका, कौपकालिकी] कोपस्य कालः = कोपकालः । कोपकाले भवा = कौपकालिका, कोपकालिकी ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [201]