________________
१७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[आनुपदिकः] अनुगतं पदम् = अनुपदम् । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।११४७) समासः । अनुपदं वेत्त्यधीते वा = आनुपदिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।।
पदादिसाहचर्यात् कल्पस्यापि नाम्न एव ग्रहणम्, न प्रत्ययस्य ।
[मातृकल्पिकः] मातुः कल्पं = मातृकल्पम् । तं वेत्त्यधीते वा = मातृकल्पिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पैतृकल्पिकः] पितुः कल्पं = पितृकल्पम् । तं वेत्त्यधीते वा = पैतृकल्पिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पाराशरकल्पिकः] पाराशरस्य कल्पं = पाराशरकल्पम् । तं वेत्त्यधीते वा = पाराशरकल्पिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[श्राद्धकल्पिकः] श्राद्धस्य कल्पं = श्राद्धकल्पम् । तं वेत्त्यधीते वा = श्राद्धकल्पिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गौलक्षणिकः] गवां लक्षणं = गोलक्षणम् । तं वेत्त्यधीते वा = गौलक्षणिकः । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आश्वलक्षणिकः] अश्वानां लक्षणम् = अश्वलक्षणम् । तं वेत्त्यधीते वा = आश्वलक्षणिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[हास्तिलक्षणिकः] हस्तिनां लक्षणं = हस्तिलक्षणम् । तं वेत्त्यधीते वा = हास्तिलक्षणिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[आनुलक्षणिकः] अनुगतं लक्षणम् = अनुलक्षणम् । तं वेत्त्यधीते वा = आनुलक्षणिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सौलक्षणिकः] शोभनानि लक्षणानि यत्र तत् = सुलक्षणम् । सुलक्षणं वेत्त्यधीते वा = सौलक्षणिकः । अनेन इकणप्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[लाक्षणिकः ] लक्षणं वेत्त्यधीते वा = लाक्षणिकः । 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
क्रतु- [आग्निष्टोमिकः] अग्नीनां स्तोमः = अग्निष्टोमः । 'ज्योतिरायुभा च स्तोमस्य' (२।३।१७) षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गों' (१।३।६०) त० → ट० । अग्निष्टोमं वेत्त्यधीते वा = आग्निष्टोमिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वाजपेयिकः] वाजं-यज्ञाङ्गं पेयं च । वाजपेयं वेत्त्यधीते वा = वाजपेयिकः । अनेन इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ज्यौतिष्टोमिकः] ज्योतिषां स्तोमः = ज्योतिःष्टोमः । 'ज्योतिरायुभ्या॑ च स्तोमस्य' (२।३।१७) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । ज्योतिःष्टोमं वेत्त्यधीते वा = ज्यो(ज्यौ)तिष्टोमिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [170]