________________
१६८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[तैलम्पाता तिथिः, क्रियाभूमिः, क्रीडा वा] तिलपातो यस्यां तिथौ वर्त्तते सा = तैलम्पाता । अनेन णप्र० → अ-मकारागमश्च । 'आत्' (२।४।१८) आप्प्र० → आ । तिथिः, क्रियाभूमिः, क्रीडा वा ॥छ।।
प्रहरणात् क्रीडायां णः ॥ ६।२।११६ ॥ [प्रहरणात् ] प्रहरण पञ्चमी ङसि । [क्रीडायाम् ] क्रीडा सप्तमी ङि । [णः] ण प्रथमा सि ।
[दाण्डा क्रीडा] दण्डः प्रहरणमस्यां क्रीडायां सा = दाण्डा । अनेन णप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ ।
[मौष्टा क्रीडा] मुष्टौ(ष्टिः) प्रहरणमस्यां क्रीडायां सा = मौष्टा । अनेन णप्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[पादा क्रीडा] पादः प्रहरणमस्यां क्रीडायां सा = पादा । अनेन णप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
यत्राद्रोहेण घातप्रतिघातौ स्यातां सा क्रीडा ॥छ।।
तद्वेत्त्यधीते ।। ६।२।११७ ।। [तद् ] तद् अम् । 'अनतो लुप्' (१।४।५९) लुप् । [वेत्त्यधीते ] वेत्तिश्च अधीते च = तत्, तस्मिन् ।
[मौहूर्तः] मुहूर्तं वेत्ति = मौहूर्त्तः । अनेन विहितः 'प्राग जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[औत्पातः] उत्पातं वेत्ति = औत्पातः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[नैमित्तः] निमित्तं वेत्ति = नैमित्तः । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । __[मौहूर्तिकः ] मुहूर्तं वेत्ति = मौहूर्तिकः । मतान्तरे 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[नैमित्तिकः] निमित्तं वेत्ति = नैमित्तिकः । मतान्तरे 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[छान्दसः] छन्दस् । छन्दोऽधीते = छान्दसः । अनेन अणप्र० → अ । वृद्धिः ।
[वैयाकरणः ] व्याकरणं वेत्त्यधीते वा = वैयाकरणः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'लोकात्' (१।१।३) व् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐकारुः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [168]|