________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
जम्ब्वा वा ॥ ६।२६० ॥ [जम्ब्वाः ] जम्बू पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस्० । 'इवर्णादेरस्वे स्वरे०' (१।२।२१) व० ।
[वा] वा प्रथमा सि ।
[जाम्बवम्, जम्बु, जम्बूः] जम्बू । जम्ब्वा विकारोऽवयवो वा फलं = जाम्बवम् । अनेन अण्प्र० । वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । पक्षे-'क्लीबे' (२।४।९७) इस्वत्वम्-जम्बु । जम्बू 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अथवा 'अभक्ष्या-ऽऽच्छादने वा मयट्' (६।२।४६) मयट्प्र० । 'फले' (६।२।५८) लुप् । लुपि स्त्री-नपुंसकते च ॥छ।
न द्विरद्रुवय-गोमय-फलात् ॥ ६।२।६१ ॥ [न] न प्रथमा सि । [द्विः] द्वि । द्वौ वारावस्येति द्विः । 'द्वि-त्रि-चतुरः सुच' (७।२।११०) सुचप्र० ।
[अद्रुवयगोमयफलात्] द्रुवयश्च गोमयश्च फलं च = द्रुवयगोमयफलम् । न द्रुवयगोमयफलम् = अद्रुवयगोमयफलम्, तस्मात् ।
[कापोतः] कपोतस्य विकारोऽवयवो वा = कापोतः । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । कापोतस्य विकारोऽवयवो वा इति 'दोरप्राणिनः' (६।२।४९) इति मयट न भवति ।
[बैल्वः] बिल्वस्य विकारोऽवयवो वा = बैल्वः । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । बैल्वस्य विकारोऽवयवो वा । 'दोर०' (६।२।४९) मयट प्राप्तौ अनेन न भवति ।
[ऐणेयः] एण । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । एण्या विकारोऽवयवो वा = ऐणेयः । ‘एण्या एयञ्' (६।२।३८) एयप्र० → एय । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । ऐणेयस्य विकारोऽवयवो वा । 'दोरप्राणिनः' (६।२।४९) मयट्प्राप्तौ अनेन निषिध्यते ।
[शामीलः] शमी । शम्या विकारोऽवयवो वा = शामीलः । 'शम्या लः' (६।२।३४) अण्प्र० - लोऽन्तः । वृद्धिः । शामीलस्य विकारोऽवयवो वा = शामीलः । 'दोरप्राणिनः' (६।२।४९) मयट्प्राप्तिरनेन निषिध्यते ।
[औष्टकः ] उष्ट्रस्य विकारोऽवयवो वा = औष्ट्रकः । 'उष्ट्रादकज्' (६।२।३६) अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णवर्णस्य' (७४/६८) अलुक् । औष्ट्रकस्य विकारोऽवयवो वा = औष्ट्रकः । 'दोरप्राणिनः' (६।२।४९) मयट नात्र ।
[कांस्यः] कंसाय इदं = कंसीयम् । 'परिणामिनि तदर्थे' (७।१।४४) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । कंसीयस्य विकारः = कांस्यः । 'कंसीयाध्यः' (६।२।४१) ज्यप्र० → य - ईयस्य यलोपश्च । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । कांस्यस्य विकारोऽवयवो वा = कांस्यः । अनेन मयनिषिध्यते । [पारशवः] परशवे इदं = परशव्यम् । 'उवर्ण-युगादेर्यः' (७१।३०) यप्र० । 'अस्वयम्भुवोऽव्' (७४/७०)
व्यस्यायसो विकारः = पारशवः । 'परशव्याद् यलुक्च ' (६।२।४०) अण्प्र० → अ - यलुक् च । वृद्धिः । पारशवस्य विकारोऽवयवो वा = पारशवः । अनेन मनिषिध्यते । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [139]