________________
षष्ठाध्यायस्य प्रथमः पादः ।।
कुरोर्वा ॥ ६।१।१२२ ॥ [कुरोः] कुरु पञ्चमी ङसि । [वा] वा प्रथमा सि ।
[ कुरूः,कौरव्यायणी ] कुरु । कुरोरपत्यं स्त्री । 'दु - नादि - कुवित्०' (६।१।११८) ज्यप्र० । अनेन लुप् । 'उतोऽप्राणिनश्चाऽयु - रज्ज्वादिभ्य ऊङ्' (२।४/७३) ऊप्र० → ऊ । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । कुरूणां राष्ट्रस्य राज्ञी, कुरोः राज्ञोऽपत्यं स्त्री वा = कौरव्यायणी । 'दु - नादि - कुर्वित्०' (६।१११८) ज्यप्र० → य । यत्र न लुप् तत्र 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'कौरव्य - माण्डूका - ऽऽसुरेः' (२।४/७०) ङी० - डायन्० → आयन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'रपृवर्णान्नो ण०' (२।३।६३) णत्वम् ॥छ।।
द्रेरजणोऽप्राच्य-भर्गादेः ॥ ६।१।१२३ ॥
[द्रेः] द्रि षष्ठी ङ्स् । [अत्रणः] अञ् च अण् च = अबण, तस्य । [अप्राच्यभर्गादेः] प्राच्याश्च भर्गादयश्च = प्राच्यभर्गादि, न प्राच्यभर्गादि = अप्राच्यभर्गादि, तस्मात् ।
ज[सूरसेनी] सूरसेन । सूराः सेना यस्य सः = सूरसेनः । 'गोश्चान्ते०' (२२४९६) हुस्वः । सूरसेनस्याऽपत्यं स्त्री = सूरसेनी । 'राष्ट्र-क्षत्रियात०' (६।१।११४) अप्र० । अनेन लुप । 'जातेरयान्त-नित्यस्त्री-शुद्रात्' (२।४।५४) ङी । 'अस्य ङ्यां०' (२।४।८६) अलुक् ।
[अपाच्या ] 'अञ्चूग गतौ च' (८९०) अञ्च्, अपपूर्व० । अपाञ्चतीति अपाच्(क्) । 'क्विप्' (५।१।१४८) क्विप्र० । 'अञ्चोऽनर्चायाम्' (४।२।४६) नलोपः । अपाचि भवः = अपाच्यः । 'द्यु-प्रागपागुदक्-प्रतीचो यः' (६।३।८) यप्र० । 'अच्च् प्राग् दीर्घश्च' (२।१।१०४) अच्० → च्० - पूर्वस्य अकारस्य दीर्घः । अपाच्यस्य राज्ञोऽपत्यं स्त्री । 'राष्ट्र-क्षत्रियात् सरूपाद्' (६।१।११४) अप्र० । अनेन लुप् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[मद्री ] मद्राणां राष्ट्रस्य राज्ञी = मद्री । 'पुरु-मगध-कलिङ्गः' (६।१।११६) अण्प्र० । अनेन लुप् । 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी । ('जाते०' (२।४।५४) ङी) ।
[दरत् ] दरदाना(दां) राष्ट्रस्य राजा, दरदस्य(दा) राज्ञोऽपत्यं वा = दरदः । 'पुरु-मगध-कलिङ्ग०' (६।१।११६) अण्प्र० । अनेन लुप् ।
[मत्सी] मत्स्य । मत्स्यस्यापत्यं स्त्री = मत्सी । 'पुरु-मगध-कलिङ्ग०' (६।१११६) अण्प्र० । अनेन लुप् । 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'मत्स्यस्य यः' (२।४।८७) यलोपः ।
[औत्सी] उत्स । उत्सस्यापत्यं स्त्री । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्-नञ्' (२।४।२०) ङी ।
[औपगवी ] उपगोरपत्यं स्त्री = औपगवी । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'अणजेयेकण्-नञ्०' (२।४।२०) ङी ।
卐 बृहवृत्तौ - शूरसेनी ।