________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
(५।१।५९) शप्र० → अ । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । विशिष्टा धारया येषु ते = विधारयाः । विधारयाणां राष्ट्रस्य राजा, विधारयस्य राज्ञोऽपत्यं वा = विधारयः ।
[उपधारयः] उपगता धारया यैः = उपधारयाः । उपधारयाणां राष्ट्रस्य राजा, उपधारयस्य राज्ञोऽपत्यं वा = उपधारयः ।
[अपधारयः] अपगता धारयात् = अपधारयः । अपधारयाणां राष्ट्रस्य राजा, अपधारयस्य राज्ञोऽपत्यं वा = अपधारयः ।
[मुरलः] मुरलानां राष्ट्रस्य राजा, मुरलस्य राज्ञोऽपत्यं वा = मुरलः ।
[खसः] ख 'षोंच अन्तकर्मणि' (११५०) षो । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सो । 'आत् सन्ध्यक्षरस्य' (४।२।१) सा । खं स्यति = खसः । 'आतो डोऽह्वा-वा-मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । यद्वा खेन स्यति = खसः । खसानां राष्ट्रस्य राजा, खसस्य राज्ञोऽपत्यं वा = खसः । सर्वत्र 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० । अनेन लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते विर्सगस्तयोः' (१।३।५३) विसर्गः ॥छ।।
कन्त्यवन्तेः स्त्रियाम् ॥ ६।१।१२१ ॥ [कुन्त्यवन्तेः] कुन्तिश्च अवन्तिश्च = कुन्त्यवन्ति, तस्मात् । [ स्त्रियाम् ] स्त्री सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९) ङि० → दाम्० → आम्० । 'स्त्रियाः' (२।१।५४) इय् ।
[ कुन्ती] कुन्ति । कुन्तेरपत्यं स्त्री = कुन्ती । 'दु-नादि-कुर्वित्०' (६।१।११८) ज्यप्र० । अनेन लुप् । 'नुर्जातेः' (२।४।७२) ङी । 'समानानां०' (१।२।१) दीर्घः ।
[अवन्ती] अवन्ति । अवन्तेरपत्यं स्त्री = अवन्ती । 'दु-नादि-कुर्वित्' (६।१।११८) ज्यप्र० । अनेन लुप् । 'नुर्जातेः' (२।४।७२) ङी ।
[कौन्त्यः ] कुन्तेरपत्यं = कौन्त्यः । 'दु - नादि - कुर्वित्' (६।१।११८) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[आवन्त्यः ] अवन्तेरपत्यम् = आवन्त्यः । 'दु - नादि - कुर्वित्' (६।१।११८) ज्यप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।।
[कौन्ती] कौन्तीति कुन्तेरपत्यानि बहवो माणवकाः । 'दु - नादि - कुर्वित्' (६।१।६८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२८) लुप् । ते एव शस्त्रजीविसङ्घः स्त्रीत्वविशिष्टो विवक्षितः । 'पूगादमुख्यकाघ्यो द्रिः' (७।३।६०) इत्यधिकारे 'शस्त्रजीविसङ्घायड् वा' (७३।६२) ज्यटप्र० । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इवर्णस्य लुक् । ततो 'अणजेयेकण् - नञ् - स्नञ् - टिताम्' (२।४।२०) ङी । 'अस्य यां लुक्' (२४८६) अलुक् । 'व्यञ्जानात् तद्धितस्य' (२।४।८८) यलुक् । यद्वा कुन्तेरपत्यं बहवो माणव शस्त्रजीविसङ्घः स्त्रीत्वविशिष्टो विवक्षितः । 'दु - नादि - कुर्वित्०' (६।१।११८) ज्यप्र० । अनेन लुप् । 'नुर्जातेः' (२।४।७२) ङी । ततः 'शस्त्रजीविसङ्घायड् वा' (७।३।६२) ज्यटप्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलोपः । 'वृद्धि: स्वरेः' (७।४।१) । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् ॥छ।।