________________
असंख्येयभागादिषु जीवानाम्।। प्रदेशसंहार विसर्पाभ्या प्रदीपवत्।।
गतिस्थत्युपग्रहौ धर्माधर्मयोरुपकारः।।
आकाशस्यावगाहः।।
शरीरवाङ्मनः प्राणापानाः पुद्गलनानाम्।। सुखदुःखजीवितमरणोपग्रहाश्च।। परस्परोपग्रहो जीवानाम्।। वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य।।
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।।
शब्दसौक्ष्म्यस्थौल्य संस्थान भेदतश्छायातपोदयोतवन्तश्च।।
अणवः स्कन्धाश्च।।
भेदसंघातेभ्य उत्पद्यन्ते।।
भेदादुणुः।। भेदसंघाताभ्यां चाक्षुषः।।
सद्दव्यलक्षणम्।। उत्पादव्ययध्रौव्युक्तं सत्।। तदभावाव्ययं नित्यम्।। अर्पितानर्पितसिद्धेः।।
स्निग्धरुक्षत्वाद् बन्धः।।
न जघन्यगुणानाम्।।
गुणसाम्ये सदृशानाम्।।
द्वयाधिकादिगुणानां तु।। बन्धेऽधिको पारिणामिको च।।
गुणपर्ययवत् द्रव्यम्।।
कालश्चा
सोऽनन्तसमयः।।
द्रव्यश्रया निर्गुणा गुणाः।।