________________
आरणाच्युततादूर्ध्वमेकैकेननवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च।। अपरापल्योपममधिकम्।। परतः परतः पूर्वा पूर्वाऽनन्तरा।। नारकाणां च द्वितीयादिषु।। दशवर्षज्ञसहस्राणि प्रथमायाम्।।
भवनेषु च।। व्यन्तराणां च।।
परापल्योपममधिकम्।।
ज्योतिष्कणां च।।
तदष्टभागोऽपरा।।
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम्।।
इति चतुर्थोऽध्यायः।।
अजीवकाया धर्माधर्माकाशपुद्गलाः।।
द्रव्याणि||
जीवाश्च।।
नित्यावस्थितान्यरूपाणि।।
रूपिणः पुद्गलाः।। आकाशादेकद्रव्याणि।।
निष्क्रियाणि च।।
असंख्योयाः प्रदेशा धर्माधर्मेकजीवानाम्।।
आकाशस्यानन्ताः।।
संख्येयासंख्येयाश्च पुद्गलानाम्।।
नाणोः।।
लोकाकाशेऽवगाहः।। धर्माधर्मयोः कृस्ने।। एकप्रदेशादिषु भाज्यः पुद्गलानाम्।।