________________
विशुद्धिक्षेत्रस्वामिविषयोऽवधिमनः पर्यययोः ।।
मतिश्रुतयोर्निबन्धो द्रव्येष्वस्रवपार्यायेषु।।
रूपिष्ववधेः ।।
तदनन्तभागे मनः पर्यस्य ।।
सर्वद्रव्यपर्यायेषु केवलस्य ।।
एकादीनि भाज्यानियुगपदेकस्मिन्नाचतुर्भ्यः।।
मतिश्रुतावधयो विपर्ययश्च ।।
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत्।।
नैगमसंग्रहव्यवहारर्जु सूत्रशब्द समभिरूढैवंभूता नयाः ।।
इति प्रथमोऽध्यायः ।।
औपशमिक क्षायिकौ भाव मिश्रश्च जीलस्य स्वतत्त्वमौदयिक पारिणामिको च ।।
दविनवाष्टादशैकविंशातित्रिभेदा यथाक्रमम् ।।
सम्यक्त्व चारित्रे ।।
ज्ञानदर्शन दानलाभभोगोप भोगवीर्याणि च।।
ज्ञानाज्ञान दर्शन लब्ध्यश्चतुस्त्रि त्रिपञ्चभेदाः सम्यक्त्व चारित्र संयमासंयमाश्च ।। गतिकषायलिङ्ग मिथ्यादर्शना ज्ञानासंयता सिद्ध लेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः।।
जीवभव्याभव्यत्वानि च ।।
उपयोगो लक्षणम् ।।
सद्विविधोऽष्टचतुर्भेद।।
संसारिणो मुक्ताश्च ।।
समनस्कामनस्काः ।।
संसारिणस्त्रसस्थावराः ।।
पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ।।
वीन्द्रियादयस्त्रसाः।।
पंचेद्रियाणि ॥
द्विविधानि ।।