________________
पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण ।
ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सज्जातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधवः प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः ।
ग्रन्थोऽयं संस्कृताध्यासिनो यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम् ।
ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्राथिनो वयमिति शम्।
विषयानुक्रमः
दशमं पर्व
प्रथमः सर्गः विषयः मङ्गलम् .....
............. नयसारस्य सम्यक्त्वलाभो देवलोकगमनं च .. मरीचे: सम्यक्त्वव्रतप्रतिपत्तिः....... मरीचे: क्लेशभयात् त्रिदण्डधारणम् ................ भरतस्य मरीचिवन्दनम्... मरीचे चगोत्राख्यकर्मोपार्जनम् . मरीचेयाधिः शिष्यार्थं चिन्ता च कपिलस्य मरीचिशिष्यता, मरीचे: साङ्ख्यदर्शनप्रचारश्च ................ मरीचेर्देवादिभवभ्रमणम् ....... विश्वभूतेव्रतग्रहणम् ....... विश्वभूतेविशाखनन्दिमारणनिदानकारणम् , रिपुप्रतिशत्रुनृपस्य स्वकन्यया परिणयः . त्रिपृष्ठजन्म ............... त्रिपृष्ठेन हयग्रीवदूतघर्षणम् ........... त्रिपृष्ठेन तुङ्गगिरिसिंहवध: ..... हयग्रीववधः, त्रिपृष्ठस्याऽर्धचक्रित्वं च ..... त्रिपृष्ठस्य नरकगमनमचलस्य परमपदप्राप्तिश्च प्रियमित्रस्य जन्म... प्रियमित्रस्य चक्रित्वम् ..... प्रियमित्रस्य देवत्वम् .... नन्दननृपस्य तीर्थकृन्नामकर्मोपार्जनं देवभवश्च ..
सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे
- शीलचन्द्रविजयः