________________
प्रथमं पर्व - षष्ठः सर्गः ततोऽष्टापदानेरुत्तीर्याऽयोध्यां प्रति प्रस्थाय तां प्राप्य प्रविश्य स्वं सदनमाससाद । तत्र चाऽहर्निशं प्रभुं ध्यायन् शोकमग्नः कुलामात्यैः कथञ्चिदपि प्रबोधितः क्रमाद् राजकार्येषु प्रावर्त्तत ।
१४०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः देवच्छन्दे च चतुर्विशती रत्नघण्टिका, माणिक्यदर्पणाः, सौवर्यो दीपिका, रत्नकरण्डकाः, पुष्पचङ्गेरिकाश्चामरसमूहा, विभूषणकरण्डिका, हैमानि धूपदहनपात्राणि चाऽऽरात्रिकाणि च, रत्नमङ्गलदीपा, रत्नभृङ्गारका, रत्नस्थालानि, सौवर्णाः पतद्ग्रहाः, रत्नचन्दनकलशा, रत्नसिंहासनानि, रत्नमय्योऽष्टमङ्गल्यो, हैमास्तैलसमुद्गका, हैमानि धूपभाण्डानि, हैमा उत्पलहस्तकाश्च चतुर्विशतेः श्रीमदर्हतां पुरो बभूवुः। इत्थं नानारत्नमयं त्रैलोक्येऽप्यतिसुन्दरं मृग-लतादिचित्रैभित्तिष्वतिमनोहरं रत्नस्तम्भ-पताका-ध्वज-दण्ड-पद्मरागकुम्भाप्सरः-कुसुमप्रकरधूपधूम-चैत्यवृक्ष-माणिक्यपीठिकादिविभूषितं तच्चैत्यं भरताज्ञया कलाविदा वर्धकिरत्नेन तत्कालमेव विनिर्मितम् ।
तत्रैव च भरतो दिव्यरत्नशिलामयीनवनवतेमा॑तॄणां प्रतिमा: कारयामास । तत्रैव च ताः प्रतिमाः शुश्रूषमाणामात्मप्रतिमामपि कारयामास । चैत्याद् बहिश्च भगवत एकं, नवनवतिभ्रातृणां तावत्स
ङ्ख्यकं स्तूपमकारयत् । तत्र च नागरा आशातनां मा कार्युरिति यन्त्रमयांल्लौहानारक्षकांश्च कारयामास । तैश्च तत् स्थानं नृणामगम्यमभूत् । दण्डरत्नेन च तत्रर्जूच्चस्तम्भवद्दन्तांश्चिच्छेद, येन सोऽदिरनारोहणीयोऽभवत् । तथा मनुष्यैरलध्यानि योजनान्तरितानि मेखलारूपाण्यष्टौ पदानि गिरिं परितः कारयामास । ततः प्रभृति तस्य शैलस्याऽष्टापद इति संज्ञा जाता । लोके च सोऽद्रिहराद्रिः कैलासः स्फाटिकाद्रिश्च कीर्त्यते ।
एवं चैत्यं कारयित्वा प्रतिमाः प्रतिष्ठाप्य च भरतः श्वेतवस्त्रधरस्तत्र प्रविवेश । प्रदक्षिणां कृत्वा सुगन्धिजलैः सपरिच्छदः प्रतिमाः नपयित्वा देवदूष्यैः परिमृज्य गोशीर्षचन्दनैर्विलिलेप । विचित्रै रत्नभूषणैर्दिव्यमाल्य-वस्त्रादिभिश्च सम्पूज्य घण्टां वादयन् धूपं प्रदाय कर्पूरारात्रिकमुत्तार्य प्रणम्य सर्वास्ता प्रतिमा नामोच्चारपूर्वकं स्तुत्वा प्रत्येकमहतो नमस्कृत्य च सिंहनिषद्यायाश्चैत्याद् बहिनिर्ययौ नृपः ।
अथ भरतः कदाचित् क्रीडितुं सवधूजन: क्रीडादीर्घिकां ययौ । तत्र च मृगीदृशीभिर्युवतिभिः सह जलक्रीडां चक्रे । कदाचिद् विलासमण्डपप्राङ्गणे च सङ्गीतकं कारयामास । कदाचित् प्रेक्षणकानि प्रेक्षाञ्चक्रे च । एवं सांसारिकसुखानि भुञ्जानो भरतः प्रभुमोक्षदिनात् पञ्च पूर्वलक्षा अत्यवाहयत् ।
अपरेधुः कृतस्नानो बलिकर्म विधाय कृतनेपथ्यः सान्तःपुरपरीवारो वेत्रिणीदर्शितमार्गश्च स रत्नादर्शगृहं ययौ । तत्र च यथाप्रमाणं प्रतिबिम्बितं सर्वाङ्गं ददर्श । तत्र स्वं प्रेक्षमाणस्य तस्याऽङ्गुल्या एकस्या अङ्गुलीयकं निपपात, तच्च भरतो नाऽज्ञासीत् । क्रमेण वपुः पश्यंश्च तामङ्गुलीमनङ्गुलीयकामपश्यत् । “अङ्गुली किं विशोभे" ति चिन्तयन् भूमौ पतितमङ्गलीयकं ददर्श । “अन्यान्यङ्गान्यप्याभरणैविना विशोभानि किम्?" इति परीक्षितुं सोऽपराण्यप्याभरणानि मोक्तुमारेभे। मुकुटादिपादकटकान्तत्यक्तसर्वाङ्गभूषणं शीर्णपर्णं द्रुममिव स्वं गतश्रीकमपश्यत् । ततोऽचिन्तयत्-"भूषणादिभिर्वपुषः श्रीः कृत्रिमैव। अन्तर्मलदूषितस्याऽस्य शरीरस्य बहिश्चिन्त्यमानं किमपि शोभनं न वर्तते । इदं च शरीरं कर्पूरादीनपि दूषयत्येव । येन विषयेभ्यो विरज्य तपस्तेपे, तेनैव शरीरफलं जगृहे" । इत्येवं चिन्तयत: सम्यगपूर्वकरणक्रमात् क्षपक श्रेण्यारूढस्य शुक्लध्यानं प्राप्तस्य च तस्य घातिकर्मक्षयात् केवलज्ञानमुत्पेदे।
तदानीमेव चाऽऽसनकम्पतो वासवो भक्त्या समुपेत्य "केवलिन् ! द्रव्यलिङ्गं प्रतिपद्यस्व, यथा वन्दे, निष्क्रमणोत्सवं च