________________
पञ्चमः सर्गः
अथ ततः सभागृहं प्राप्तो भरत: सुषेणसेनापतिना विज्ञप्तः" दिग्विजयं कृत्वाऽपि तव चक्रमिमां पुरीमद्याऽपि न प्रविशति" । "अद्याऽपि षट्खण्डे भरते ममाऽऽज्ञां को न पालयती 'ति भरतेन पृष्टः सचिवः सुषेणोऽवदत्-"आक्षुद्रहिमवगिरि भरतक्षेत्रं देवेन निर्जितं, किन्तु चक्रस्य पुर्यामप्रवेशेन सूच्यते- 'यदस्ति कोऽपि जेतव्योऽधुनाऽपि । आ ज्ञातं, बाहुबलिरेको जेतव्योऽवशिष्यते । तद् विना विलम्बं तज्जयाय यतध्वम् । रोगवत् स्वल्पोऽपि शत्रुर्नोपेक्ष्यः"।
ततो दावाग्नि- मेघवृष्टिभ्यामद्रिरिव सद्यः कोप- प्रशमाभ्यां समन्वितो भरतोऽब्रवीत् -"एकतोऽनुज आज्ञामुल्लङ्घयतीति लज्जाकरं, कनीयसा भ्रात्रा सह युद्धमित्यप्यनुचितं, तेन सङ्कटे पतितोऽस्मि "।
अमात्योऽवोचत्-"ज्यायसा भ्रात्राऽऽज्ञा देया, कनीयसा च सा पालनीयेति सर्वलोकव्यवहारः । अतः सन्देशहारकं प्रेष्य तमाज्ञापय । स चेद् न पालयति, तदा त्वया स प्रशासनीयः । एवं च लोकाचारानतिक्रमान्नाऽपवादस्ते " । भरतस्तथेति प्रतिपद्य सुवेगनामानं दूतमनुशिष्य बाहुबलिं प्रति प्रैषीत् ।
ततो रथमारुह्य सुवेगस्तक्षशिलां प्रति प्रतस्थे । मार्गे च गच्छतस्तस्य वामं नेत्रं पस्पन्दे । अन्यान्यपि चाऽशकुनानि जातानि । तथाऽपि स ग्राम- नगरादीन् लङ्घयन् तरुखण्ड-सरोवरादिषु
प्रथमं पर्व पञ्चमः सर्गः
१०७
कुत्राऽपि विश्राममकुर्वन् श्वापदादिभिर्भयङ्करां सघनां महाटवीं प्राप । तमुल्लङ्घ्य भरताज्ञानभिज्ञं बहलीदेशं प्राप्तवान् । तत्र च तक्षशिलानगरी सर्वतः समृद्धिमतीं प्राप्य सिंहद्वारे द्वारपालेन प्रतिषिद्धस्तस्थौ । " तव ज्येष्ठभ्रातुर्दूतो द्वारि तिष्ठतीति निवेदितेन राज्ञाऽनुमतः स सुवेगो वेत्रिणाऽन्तः प्रावेश्यत । स च प्रविश्य सपरिजनपरिच्छदं रत्नसिंहासनासीनं तेजसा दैवतमिव बाहुबलिनं सविस्मयं ददर्श । ततो नृपं प्रणम्य तत्प्रदर्शिते आसने स उपाविशत् ।
ततो भरतादिविषयकं कुशलादिप्रश्नं विधाय नृपे तूष्णीके जाते कृताञ्जलिः सुवेगो जगाद - "भरताधीशः षट्खण्डां पृथिवीं शासदखण्डिताज्ञ: सपरिच्छदपरिजनः कुशली, तथाऽप्यन्त प्रमोदते । यो दरिद्रोऽपि कुटुम्बेन सेव्यते स ईश्वरः । षष्टिवर्षसहस्रान्तादागतः स कनीयसां युष्मदादीनामागमनमार्गं निरीक्षते । तत्र सर्वे समाययुः । भरतस्य महाराज्याभिषेकं च चक्रुः किन्तु पार्श्वे निजाननुजानपश्यन् बलवदुत्कण्ठातस्तानाातुं दूतं प्रैषीत् । तत्र केचिद्भरतस्य समीपमनागम्य जिनेश्वरपादान्ते दीक्षां जगृहुः । तैः तस्य भ्रातृवात्सल्यलालसा न पूर्यते भ्रातरि स्नेहश्चेत् तव तर्ह्येहि, नृपस्य हृदयप्रमोदं देहि । गुरौ शूरैरपि सभयैरिव वर्त्तितव्यम् । चक्रवर्त्ती हि नृपैरवश्यं सेवनीयः । स्वस्य वीरमानितया चक्रवर्तिनोऽवमाननं न शुभाय । तस्यैकः सेनापतिर्दण्डपाणि: सुषेणोऽपि न केनाऽपि सोढुं शक्यस्तर्हि भरतस्य चक्रधरस्य का कथा ? नृपा ह्याज्ञासारा ज्ञातिमपि न त्यजन्त्याज्ञाभङ्गे सति । तस्मात् तेजसा वयसा च श्रेष्ठो ज्येष्ठश्च स राज्यकामेन त्वयाऽवश्यं सेवनीयः " ।
एतच्छ्रुत्वा बाहुबलिरुवाच - "साधु दूत ! त्वं वचनचतुरोऽसि । कथमन्यथा मदग्रेऽपीत्थं वक्तुं समर्थः ? ज्यायसस्ताततुल्यस्य भ्रातुः कनीयसि स्नेहो युज्यत एव । किन्तु महाविभवः सोऽल्पविभवैर