________________
९४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एवं तस्मिन् समरसागरे नृपचमूनक्रचक्रं म्लेच्छस्तिमिङ्गिलैरिव ग्रस्तत्रस्तं जातम् । ___ अथ सेनां पराजितां पश्यन् सुषेण: कोपाद् रक्तमुखनेत्रः सन्नद्धो भूत्वा कमलापीडाख्यं वाजिराजं समारुह्य दैर्घ्य पञ्चाशदङ्गुलं तीक्ष्णधारमतिदृढं खड्गरत्नमाकाशे भ्रमयन् वाजिनं प्रेरयित्वा विद्विषबलं विदार्य समराङ्गणं प्राविशत् । निघ्नति च तस्मिन् चमूपतौ केचन त्रस्ताः, केचन पतित्वा नेत्रे निमील्य स्थिताः, केचनोर्वीभूय विषमस्थानमारुह्य स्थिताः, केषाञ्चिदस्त्राणि केषाञ्चिदातपत्राणि च पेतुः । केषाञ्चित् तुरगा नेशुः, स्यन्दनाश्चाऽभज्यन्त । ते म्लेच्छा: सुषेणेन पर्यस्ताः स्वीयानप्यनीक्षमाणा दिशोदिशमात्मप्राणान् गृहीत्वा पलायाञ्चक्रिरे ।
ते वायसा इवैकत्र सम्भूय क्षणमालोच्य च म्लेच्छ: सिन्धुं महानदीमुपेत्य तस्याः सैकते सिकतोत्करैः संस्तरान् विधायोपविश्य नग्ना उत्तानाश्च स्वकुलदेवता मेघमुखान् नागकुमारान् ध्यात्वाऽष्टमतपो व्यधुः । तदष्टमतपोऽन्ते तेषां नागकुमाराणामासनानि चकम्पिरे । ततस्तेऽवधिना म्लेच्छानार्त्तान् दृष्ट्वा तदग्रतः प्रादुर्भूयाऽन्तरिक्षस्थिता "यूयं स्वप्रयोजनं ब्रूते''ति म्लेच्छान् प्रोचुः । ते च म्लेच्छा मेघमुखान् नागकुमारान् नभ:स्थितान् दृष्ट्वाऽञ्जलि बद्ध्वा "अनाक्रान्तपूर्वमस्मद्देशमधुना कोऽप्याक्रमीत् । स यथा गच्छति, तथा कुरुते''त्यूचिरे । तच्छृत्वा मेघमुखा: “अयं देवादीनामप्यजय्यो भरतश्चक्रवर्ती, चक्री च मन्त्रादीनामगोचरो भवति, तथाऽपि युष्माकमनुरोधेन वयं तस्योपसर्ग करिष्यामः' इत्युक्त्वा तिरोऽभवन् ।
प्रथमं पर्व - चतुर्थः सर्गः
क्षणाच्चाऽज्जनश्यामा अम्भोदा नभस्तलं व्याप्नुवन्तो जज्ञिरे । ते च तडित्वन्तो गर्जन्तश्च नृपस्कन्धावारोत्सादायाऽम्भसां धाराभि: प्रवर्षितुं प्रारभन्त । मेघजलेन पूर्यमाणे भूतले च रथा अनाव्यन्त, गजादयोऽनक्रायन्त । आदित्यस्तिरोभूतः, पर्वता: प्रणेशुरिव । तदानीं भूतले एकान्धकारता चैकजलभावश्च युगपद् बभूवतुः । तामुत्पातवृष्टिं प्रेक्ष्य चक्रयपि चर्मरत्नं स्वहस्तेनाऽस्पृशत् । ततश्च तच्चर्मरत्नं द्वादशयोजनान्यवर्धन्त । जलस्योपरिस्थे च तस्मिन् ससैन्यो राजा तस्थौ । तथा चक्री पाणिना छत्ररत्नमपि पस्पर्श । तच्चाऽपि चर्मरत्नवद् ववृधे । छत्रदण्डस्योपरि च ध्वान्तविध्वंसकृते नृपो मणिरत्नं न्यवेशयत् । छत्र-चर्मरत्नयोस्तत्संपुटं दृष्ट्वा तत: प्रभृति लोके ब्रह्माण्डकल्पना जाता । चर्मरत्ने च प्रभाते उप्तानि धान्यानि गृहिरत्नप्रभावतः सायमजायन्त । तथा कुष्माण्डमूलकादीनि शाकानि फलद्रुमाछूतादयश्च दिवामुखे उप्तानि निशामुखे फलवन्ति जातानि । तानि भुञ्जानाश्च जनाः सैन्यश्रमं किमपि नाऽविदुः । नृपश्च प्रासादस्थ इव तत्र स्वस्थः सपरिच्छदस्तस्थौ । तदानीमश्रान्तं वर्षतां नागकुमाराणां तेषां सप्ताऽहोरात्राण्यभूवन् ।
"के पापा ममेदृशमुपसर्ग कर्तुमुद्यता: ?" इति नृपस्य भावं ज्ञात्वा सदा सन्निहिता: षोडश सहस्राणि यक्षाः सन्नद्धाः क्रोधाध्माता: मेघमुखान् नागकुमारानेत्याऽब्रुवन्-"यूयं चक्रिणं भरतेश्वरं न जानीथ ? तस्मिन्नेवमारम्भो युष्माकमापदे स्यात् । तथाऽपि त्वरितमपयात । अन्यथा मत्कुणा इव वोऽपमृत्युर्भावी" | तदाकर्ण्य त्रस्ता मेघमुखा देवा मेघबलं संहृत्य "भरतं शरणं गत्वाऽऽश्रयध्व" मिति किरातानादिशन् । तद्वचनाद् म्लेच्छा भग्नेच्छाः सन्तो भरतं शरणायोपजग्मुः । तथा मणिराशीन् स्वर्णपुञ्जान् लक्षशोऽश्वांश्चोपायने भरतस्य नत्वाऽर्पयामासुः। “अतः परं त्वदाज्ञावशवर्तिनः स्थास्यामो वयम्"