________________
पुरुषम् गद्यात्मकसारोद्धारः
अथ प्रकाशोऽनुदीपमिवाऽनुचक्रमनुसरन् भरतनृपः सिन्धोदक्षिणं तीरं प्राप । ततस्तेन तटेनैव पूर्वाभिमुखं गत्वा सिन्धुसदनसमीपे स्कन्धावारं निवेश्य सिन्धुं ध्यात्वाऽष्टममकरोत् । आसनकम्पनेन च सिन्धुदेव्यवधिना चक्रवर्त्तिनमागतं ज्ञात्वा प्रभूतैदिव्यैरुपायनैरचितुमुपाजगाम । ततो जय जयेत्याशीर्वचनपूर्वकं नभःस्थितोचे-'चक्रिन् ? तव किङ्कर्यस्मि, किं करवाणि ?' । ततः साऽष्टोत्तरं रत्नकुम्भसहस्रं, रत्नभद्रासने, बाहुरक्षकान् कटकान्, मृदूनि दिव्यानि वसनानि च ददौ । नृपश्च स तत् सर्वं स्वीकृत्य प्रसादालापेन तां प्रमोद्य च विससर्ज । ततो नृपः स्वर्णपात्रेऽष्टमभक्तान्तपारणं चकार । सिन्धुदेव्या अष्टाह्निकोत्सवं च विदधे ।
९०
अथ चक्रेण दर्श्यमानमार्गश्चलन्नृप उदक्पूर्वया दिशा वैताढ्यपर्वतं प्राप । तत्र दक्षिणे नितम्बे स्कन्धावारं निवेश्याऽष्टमभक्तं चकार । आसनकम्पनेन च वैताढ्यकुमारोऽवधिना भरतक्षेत्रजातं प्रथमचक्रवर्त्तिनं ज्ञात्वाऽऽगत्य व्योमस्थः "प्रभो ! सेवकोऽस्मि ते, शाधि माम्" इत्युक्त्वा महार्घ्याणि रत्नानि रत्नाभरणानि देवदूष्याणि च भद्राणि भद्रासनानि च समार्पयत् । नृपश्च तत् सर्वं स्वीकृत्य सम्भाष्य च सगौरवं तं विससर्ज । अष्टमभक्तान्तपारणं विधाय च नृपो वैताढ्यगिरिदेवस्याऽष्टाह्निकोत्सवं चकार ।
अथ चक्रमनुसरन्नृपतिस्तमिस्त्रागुहां प्राप्य तत्समीपे सैन्यान्यावास्य कृतमालदेवं ध्यात्वाऽष्टमतपञ्चकार । आसनकम्पनेन च सोऽवधिनाऽऽगतं चक्रवर्तिनं ज्ञात्वाऽऽगत्य "प्रभो ! अत्र तमिस्त्राद्वारे तव द्वारपाल इवाऽस्मि' ' इत्युक्त्वा स्त्रीरत्नयोग्यं तिलकचतुर्दशं दिव्याभरणानि दिव्यमाल्यवसनानि च राज्ञे समार्पयत् । नृपोऽपि तत् सर्वं स्वीकृत्य सप्रसादं सम्भाष्य च तं विससर्ज । ततो भूमिस्थपात्रैः पारणं विधाय कृतमालदेवस्याऽष्टाह्निकोत्सवं चकार ।
प्रथमं पर्व - चतुर्थः सर्गः
अथाऽन्येद्युः सुषेणाभिधं सेनापतिमाहूय भरतनृपः "चर्मरत्नेन नदीमुत्तीर्य सिन्धुसागरवैताढ्यसीमानं दक्षिणं सिन्धुनिष्कुटं साधय । तत्र बदरीवणवद् म्लेच्छानायुधैस्ताडयित्वा चित्ररत्नसर्वस्वमाहरे"रित्यादिशत् । तत ओजस्वी, तेजस्वी, मनीषी, निम्नानां निष्कुटानां जल-स्थलभुवामन्येषां च दुर्गाणां प्रचारवित्, सर्वम्लेच्छभाषापण्डितः स सेनापतिः शिरसा भर्तुः प्रसादमिव शासनमादाय नृपं प्रणम्य स्वावासे गत्वा सामन्तादीन् प्रयाणायाऽऽदिदेश ।
अथ स स्नात्वा भूषणभूषितः, संवर्मितः कृतमङ्गलो, युद्धार्थं सन्नद्धो, गणनेतृ-दण्डनेतृश्रेष्ठिभिः सन्धिपालचराद्यैश्चाऽऽवृतो, गजरत्नमारुह्य सितच्छत्रचामरैः शोभमानोऽङ्गुष्ठेन गजं प्रेरयन् राज्ञो ऽर्धसैन्येन समं सिन्धुरोधसि जगाम । तथा स्पृष्टं यद् द्वादश योजनं वर्धते यत्र प्रातरुप्तानि धान्यानि दिनान्ते निष्पद्यन्ते यच्च नदी नद-सागरजलेषु तारणक्षमं, तादृशं चर्मरत्नं चमूपतिर्हस्तेन समस्पृशत् । तच्चर्मरत्नं च सहजस्वभावतः सलिले प्रक्षिप्तं तटद्वयं व्याप्य प्रससार । सेनापतिश्च सेनया सह तेन चर्मरत्नेन नदीमुत्तीर्य परं तीरं प्राप । सिन्धोर्दक्षिणनिष्कुटं सर्वं सिसाधयिषुश्च चमूपतिर्लीलयैव सिंहलान्, बर्बरान्, टङ्कणान्, रत्नमाणिक्यपूरितं जवनद्वीपं कालमुखान् जोनकाख्यम्लेच्छानपरानपि वैताढ्यपर्वतोपत्यकास्थितान् म्लेच्छान् विजित्य प्रौढप्रतापप्रसरोऽनिवारितं प्रसरन् सर्वां कच्छदेशोर्वीमर्यमा दिवमिवाऽऽक्रामत् । एवं सर्वानाक्रम्य चमूपतिः कच्छदेशस्य समोर्व्यां सुस्थस्तस्थौ । तत्र च म्लेच्छभूपतयो विचित्रोपायनैः समं भक्त्या समाजग्मुः । केचिद् रत्नस्वर्णराशीन् केचिद् गजेन्द्रान् केचिज्जात्यवाजिनः केचिद् रथान्, तथाऽन्येऽन्यानपि सारान् ददुः । तथा'' अतःपरं तवाऽऽयुक्ता इवाऽऽदेशकरा वयं स्वस्वविषयेषु