________________
६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततस्तौ जिनेश्वरं नत्वा पुष्पकाख्यं विमानं विकृत्याऽऽरुह्य च धरणेन समं प्रचलितौ । पित्रोः कच्छ-महाकच्छयोस्तत्स्वामिसेवाफलं कथयित्वाऽयोध्यापतेश्च तत्सर्वं निवेद्य सर्वं परिजनं स्वजनं च तत्राऽऽदाय, प्रान्तयोर्लवणाम्भोधिवीचिचुम्बितं, दक्षिणोत्तरयोः पञ्चाशतं योजनानि पृथु, सक्रोशानि षड् योजनानि महीतलेऽवगाढं, पञ्चविंशतियोजनोत्सेधं, गङ्गा-सिन्धुनदीभ्यां समाश्लिष्टं, खण्डप्रपाताख्यतमिस्त्राख्यगुहाद्वयं दधतं, शाश्वतप्रतिमाजुषा सिद्धायतनकुटेनाऽद्भुतां शोभा बिभ्राणं, नानारत्नमयान्युच्चै किनां लीलास्थानानि नवकूटानि बिभ्रतं, योजनविंशत्योर्ध्वं दक्षिणोत्तरपार्श्वयो
य॑न्तरावासश्रेण्यौ दधानमामूलचूलं चारुकलधौतशिलामयं, शाखिलतादिशोभितं वैताढ्यगिरिमापतुः ।।
तत्र च पर्वते धरणेन्द्रादेशान्नमिः पृथिव्या दशयोजनान्यूज़ दक्षिणश्रेण्यां किन्नरनरगीताद्याख्यानि पञ्चाशतं नगरोत्तमानि निर्माय स्वयं तन्मध्यस्थं रथनूपुरचक्रवालं नगरमध्युवास । नागनाथादेशाद्विनमिश्चाऽप्युत्तरश्रेण्यां षष्टिं पुर्याद्याख्यानि पुराणि निर्माय स्वयं तेषु प्रधानभूतं गगनवल्लभाख्यं पुरमध्यतिष्ठत् । तथा तावनेकशो ग्रामान् शाखानगराणि च निर्माय स्थानौचित्याज्जनपदानपि स्थापयामासतुः । तेषु यस्माद् यस्माज्जनपदाद् नरा आनीय निवासिताः, तत्राऽपि तन्नाम्ना एव ते जनपदाः कृताः ।
___ अथ तौ नमि-विनमी तेषु पुरेषु स्वमनसीव सभायां वृषभनाथं जिनेश्वरं स्थापयामासतुः । ततो धरणेन्द्रो "विद्यादुर्मदा विद्याधरा दुर्नयं मा कार्यु"रिति तेषां मर्यादामादिशत् । “ये दुर्मदा विद्याधरा जिनानां जिनचैत्यानां चरमशरीरिणां प्रतिमाप्रतिपन्नानां सर्वेषामनगारिणां च पराभवं लङ्घनं च करिष्यन्ति, तथा सात्मस्त्रीकं नरं हनिष्यन्ति, अनिच्छन्ती स्त्रियं च रमयिष्यन्ति, तान् तत्क्षणाद्
प्रथमं पर्व - तृतीयः सर्गः विद्यास्त्यक्ष्यन्ति" । नागनाथ इमां मर्यादामुच्चै?षयित्वा रत्नभित्तिप्रशस्तिष्वलीलिखत् । तथा नमि-विनमी विद्याधराधिराजत्वे संस्थाप्य व्यवस्थां च कृत्वा स्वयं तिरोहितवान । तत्र च विद्याधराणां गौरीप्रभुतीनां विद्यानां नाम्ना गौरेयप्रभतयः षोडश निकाया अभवन् । तेषु निकायेष्वष्टौ नमिनाऽष्टौ च विनमिना गृहीताः । ताभ्यां च स्वे स्वे निकाये स्वकाये इव भक्तिपूर्वकं विद्याधिपतिदेवताः स्थापिताः । तथा तौ नित्यं वृषभस्वामिमूर्तिपूजायां कृतोत्सवौ धर्मानाबाधया भोगान् बुभुजाते ।
ते कच्छ-महाकच्छादयो राजन्यतापसाश्च गङ्गाया दक्षिणे तटे मृगा इव वनेचरा वल्कलवस्त्रधरा गृहमेधिनामाहारमुद्वान्तमिवाऽस्पृशन्तः चतुर्थ-षष्ठादितप:शुद्धं कृशतरं वपुर्धारयन्तः पारणादिवसेऽपि शीर्णपर्ण-फलादिकं भुञ्जाना हृदये जिनेश्वरान् ध्यायन्तोऽस्थुः ।
जिनेश्वरश्चाऽऽर्या-अनार्येषु मौनेन विहरन् संवत्सरं यावन्निराहारो दध्यौ-"तैलेन प्रदीपा इवाऽऽहारेणैव शरीरिणां शरीराणि वर्त्तन्ते, किन्त्वनगारिणा माधुकर्या वृत्त्या काले द्विचत्वारिंशता दोषैरदूषित आहारो ग्राह्यः । यद्यद्याऽपि पूर्वदिनवदाहारं न गृह्णामि, किन्त्वभिग्रहायोत्तिष्ठे, तदा चत्वारः सहस्राः अमी तापसा इवाऽपरे भाविनो मुनयो भङ्ग ग्रहीष्यन्ति । एवं विचार्य जिनेश्वरस्ततो भिक्षार्थं चलितो गजपुराख्यं पुरं प्राप ।
तस्मिन् पुरे बाहुबलिपुत्रसोमप्रभनृपकुमारेण श्रेयांसनृपेण स्वप्ने "परित: श्यामलो मेरुगिरिमया पयस्कुम्भैरभिषिच्याऽधिक मुज्ज्वलो विहित''इत्यदृश्यत । सुबुद्धिश्रेष्ठिना च "सूर्याच्च्युतं किरणानां सहस्रं श्रेयांसेन पुनस्तत्र स्थापितं, येन सूर्योऽतिभासुरो जज्ञे" इत्यदृश्यत । सोमयशसा च "एको राजा बहुभिः शत्रुभी