________________
प्रथमं पर्व - प्रथमः सर्गः सुबाहु-प्रशंसां श्रुत्वाऽपरबन्धुष्वीावद्भ्यां माया-मिथ्यात्वयुक्ताभ्यां स्त्रीत्वफलं कर्मोपार्जितम् ।
एवं ते षडपि चतुर्दशपूर्वलक्षान् यावदनतीचारां प्रव्रज्यां पालयित्वा संलेखनापूर्वकं पादपोपगमनानशनं प्रपद्य कालधर्म प्राप्ताः सर्वार्थसिद्धाख्यं दिवं गत्वा त्रयस्त्रिंशाब्यायुषः सुरवरा अभूवन् । इति प्रथमपर्वणि धनादिद्वादशभववर्णनात्मकः
प्रथमः सर्गः ॥१॥
३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लब्धयोऽभूवन् । किन्तु निरीहा मुमुक्षवस्ते कदाचन लब्धीनामुपयोगं न जगृहुः ।
तत्र वज्रनाभेन विंशतिस्थानकैस्तीर्थकृत्रामगोत्रकर्म समुपार्जितम् । तत्राऽर्हतां तत्प्रतिमानां च पूजा-ऽवर्णवादनिषेध-सद्भूतार्थस्तवाः प्रथमम । सिद्धिस्थानेष सिद्धानां प्रतिजागरणोत्सवादिभिः सिद्धत्वकीर्तनं द्वितीयम् । ग्लानादीनामनुग्रह: प्रवचनवात्सल्यकरणं च तृतीयम् । गुरूणामाहारादिदानाद् विनयकरणाच्च चतुर्थम् । विंशत्यब्दपर्यायाणां षष्ठिवर्षपर्यायाणां समवायाङ्गभृतां च त्रिविधानामपि स्थविराणां भक्तिः पञ्चमम् । बहुश्रुतानामन्नादिदानेन वात्सल्यकरणं षष्ठम् । तपस्विनां भक्तिविश्रामणा-दानैर्वात्सल्यकरणं सप्तम् । द्वादशाङ्गे श्रुते सूत्रार्थगतज्ञानोपयोगोऽष्टमम् । शङ्कादिदोषरहितस्थैर्यादिगुणभूषितशमादिलक्षणं सम्यग्दर्शनं नवमम् । ज्ञान-दर्शन-चारित्रोपचारैः कर्मणां विनयनाच्च चतुर्विधो विनयो दशमम् । इच्छा-मिथ्याकाराद्यावश्यकयोगेषु यत्नादतीचारपरीहार एकादशम् । अहिंसादि-समित्यादिमूलोत्तरगुणेषु निरतीचारा प्रवृत्तिादशम् । अप्रमादेन शुभध्यानकरणं त्रयोदशम् । यथाशक्ति तप:कर्म चतुर्दशम् । तपस्विषु मनो-वाक्कायशुद्ध्या भक्तानपानादीनामसंविभाग: पञ्चदशम् । आचार्यादीनां दशानां भक्त पानाऽऽसनादिभिर्वैयावृत्त्यकरणं षोडशम् । निरपायं चतुर्विधसङ्घमन:समाधिजननं सप्तदशम् । प्रत्यहमपूर्वसूत्रार्थोभयग्रहणमष्टादशम् । श्रद्धानादिना श्रुतज्ञानभक्तिरेकोनविंशम् । धर्मकथादिभिः शासनप्रभावना च विंशतितमं स्थानकम् ।
एतेषामेकमपि तीर्थकृन्नामकर्मणो बन्धकारणं, स भगवाश्च सर्वैरपि तद् बबन्ध । बाहुना च साधूनां वैयावृत्त्यं कुर्वता चक्रवर्तित्वफलं कर्मोपाजितम् । सुबाहुना च साधूनां विश्रामणां कुर्वता लोकोत्तरं बाहुबलमर्जितम् । पीठ-महापीठाभ्यां च वज्रनाभकृतां बाहु