________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-२ थू कुत्सायाम् ॥ २.२०० ॥
रे-अरे सम्भाषण-रतिकलहे ॥ २.२०१ ॥ मडहं । तुच्छम् । देश्योऽयम् ॥ [सरिआ] । सरित् । स्त्रियामादविद्युतः ॥ मए । अस्मद् । टा । मिमेममममए० ॥ करेसु । कृग् । हि । दुसुमु विध्या० । ऋवर्णस्याऽर् । व्यञ्जनाद० । वर्तमानापञ्चमीशतृषु वा - ए॥ २.२०१ ॥
हरे क्षेपे च ॥ २.२०२ ॥ [पुरिसा] । पुरुष । पुरुषे रोः । सि । डोदी? वा । अन्त्यव्यं० - सिलुक् ॥ २.२०२ ॥
ओ सूचना-पश्चात्तापे ॥ २.२०३ ॥ [अविणयतत्तिल्ले ] । अविनयतप्तिमत् । आल्विल्लोल्लालेति इल्ल । लुगिति इलुक् । आप् ।
___ सि । वाप ए । अन्त्यव्यं० - सिलुक् ॥ इत्तिआए । एतावत् । यत्तदेतदोऽतोरित्तिअ एतल्लुक् च । आप् । टाङस्२० ॥ [ओ] । उत । सिद्धः । अवापोते ॥ विरएमि । रचण् । णिच् । मिव् । तृतीयस्य मि । णेरदेदा० । वर्तमानापञ्चमीशतृषु वा - ए॥ [नह०] । नभस्० । अन्त्यव्यं० ॥ २.२०३ ।।
अव्वो सूचना-दुःख-सम्भाषणा-ऽपराध-विस्मया
ऽऽनन्दा-ऽऽदर-भय-खेद-विषाद-पश्चात्तापे ॥ २.२०४ ॥ [किमिणं] । किम् । सि । किमः किम् । इदम् । सि । क्लीबे स्यमेदमिण । वा स्वरे मश्च ॥ [तह] । तथा । वाऽव्ययोत्खातादा० ॥ [वि] अपि । सिद्धः । पदादपेर्वा । पो वः ॥ वेसा । द्वेष्याः ॥
१. मडहं । अल्प । गोणादयः - मडह आदेशः - क. । २. आमन्त्रणे सि - ख. ।