________________
सूत्रम्-९१-९९]
प्राकृतप्रबोधः
समासे वा ॥ २.९७ ॥ [नइग्गामो] । नदीग्राम । दीर्घहस्वौ मिथो वृत्तौ ।। [हरक्खंदा] । हरस्कन्द । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शसोर्लुक् ।
जस्शस्ङसि० । शुष्कस्कन्दे वा - खः ॥ [आणालक्खंभो] । आलानस्तम्भ । आलाने लनोर्व्यत्ययः । स्तम्भे स्तो वा - खः ।। [ पम्मुक्कं] । प्रमुक्त । शक्तमुक्तदृष्टेति कः ॥ [अइंसणं] । अदर्शन । वक्रादा० ॥ २.९७ ।।
तैलादौ ॥ २.९८ ॥ [वेडल्लं] । विचकिल । स्थविरविचकिलायेति चेन सह ए॥ [अज्जू] । ऋजु । उदृत्वादौ ॥ [बहुत्तं] । प्रभूत । प्रभूते बः ॥ विस्सोअसिआ । व्रतभङ्गपरिणामे विषयेच्छा ॥ २.९८ ॥
सेवादौ वा ॥ २.९९ ॥ [ नेटुं] । नीड । नीडपीठे वा - ए ॥ [ माउक्कं] । मृदुक । आत् कृशामृदुक० ॥ [कोउहल्लं] । कुतूहल । कुतूहले वा ह्रस्वश्व ।। [थोरो] । स्थूल । ओत् कूष्माण्डी० । स्थूले लो रः ॥ [दइव्वं ] । दैव । एच्च दैवे ॥ [तुण्हिक्को ] । तूष्णीक । पानीयादिष्वित् ॥ [खण्णू] । स्थाणु । स्थाणावहरे - खः । [थिण्णं] । स्त्यान । ई स्त्यान० । स्तस्य थो० ॥ १. अथवा कस्कयो म्नि - ख: - दी. । कस्कयोः - ताटि. ।