________________
६४ मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-२ [बीओ] । द्वितीय । कगचज० - तलुक् । स्वरस्योवृत्ते इति क्वचिद् वा सन्धिः ।। दुआई । द्विन्योरुत् ॥ २.७९ ॥
द्रे रो न वा ॥ २.८० ॥ स्थितिपरिवृत्तौ । हुदे हदोरिति व्यत्यये इत्यर्थः ॥ सिक्खंतु । शिक्षि विद्योपादाने । अन्ताम् । बहुषु न्तुहमो - न्तु । व्यञ्जनाद० । क्षः
खः० ॥ वोद्रहीउँ । जस् । स्त्रियामदोतौ वा - उत्वम् ॥ [पडिआ] । पतिता । सदपतोर्डः ॥ २.८० ॥
धात्र्याम् ॥ २.८१ ॥ तीक्ष्णे णः ॥ २.८२ ॥
ज्ञो ञः ॥ २.८३ ॥ [णाणं] । ज्ञान । म्नज्ञोर्णः ॥
णत्वेऽभिज्ञादाविति उः । भस्मात्मनोः पो वा ।। [ दइवज्जो ] । दैवज्ञ । एच्च दैवे - अइः ।। [सण्णा] । संज्ञा । मांसादेर्वा - लुक् ।। २.८३ ॥
। मध्याह्ने हः ॥ २.८४ ॥ [मज्झण्हो] । साध्वसध्यह्यां झः । हुस्वः सं० । सूक्ष्मश्नष्ण० ॥ २.८४ ।।
दशाहे ॥ २.८५ ॥
आदेः श्मश्रु-स्मशाने ॥ २.८६ ॥ मासू । लुप्तयरवशषसां दीर्घः ॥ मंसू । वक्रादावन्तः । मांसादिष्वनुस्वारे - ह्रस्वः ॥ मस्सू । प्रथमं अनादौ द्वित्वे ततो लुप्तयरवेति दीर्घत्वे हुस्व: सं० ॥ २.८६ ॥
१. (अत्र वृत्तिस्थस्याऽस्य पदस्याऽर्थश्चिन्त्यते ।) २. वोद्रहीओ - मु. । ३. अल्पज्ञ-आत्मज्ञाभ्यां सिद्धम् - ख. । ४. मासू । वाऽक्ष्यर्थेति पुंस्त्वम् । लुप्तय० - ख. ।