________________
____५५
सूत्रम्-६-१९]
प्राकृतप्रबोधः [पिच्छि] । पृथ्वी । अम् । हस्वे शेषेऽदन्तवदिति न्यायादमोऽस्य । [अणण्णयग्गामि ] । अनन्यकगामिन् । क्रियाविशेषणत्वादमि संस्कृतसिद्धः ॥ चइऊण । त्यजं हानौ । क्त्वा । त्योऽचैत्ये - चः । क्वस्तुमत्तूण इति तूणः । व्यञ्जनाद० ।
एच्च क्त्वातुम्तव्येति इः ॥ काउं । कृग् । क्त्वा । क्त्वस्तुमत्तूणेति तुम् । आः कृगो भूतेत्याः ॥ २.१५ ॥
वृश्चिके श्चेञ्चुर्वा ॥ २.१६ ॥ [विंचुओ, विछिओ'] । वृश्चिक । इत् कृपादौ । ङञणनो० । पक्षे ह्रस्वात् थ्यश्च:० -
छः । वक्रादावन्तः ।। संयुक्ताधिकारे श्चिग्रहणमत्र सस्वरार्थम् ॥ २.१६ ॥
छोऽक्ष्यादौ ॥ २.१७ ॥ [ उच्छू] । इक्षु । प्रवासीक्षौ - उ: ॥ [छीअं] । क्षुत । ई क्षुते ॥ [ सरिच्छो ] । सदृक्ष । दृशः क्विप्टक्सकः - रि ॥ [वच्छो ] । वृक्ष । ऋतोऽत् ॥ [छुहा] । [क्षुध्] । क्षुधो हा ॥ [कुच्छेअयं ] । कौक्षेयक । कौक्षेयके वा - उ: ॥ [ उच्छा] । उक्षन् । पुंस्यन इत्यतिदेशाद् राज्ञ इत्यात्वम् ॥ २.१७ ॥
क्षमायां कौ ॥ २.१८ ॥ [छमा] । [क्ष्मा] । क्ष्माश्लाघारत्नेऽन्त्यव्यञ्जनादिति मात् प्राक् अकारः ।। २.१८ ॥
ऋक्षे वा ॥ २.१९ ॥ [रिच्छं, रिक्खं] । ऋक्ष । रिः केवलस्य । पक्षे क्षः खः क्वचिदिति क्षस्य खः ।। २.१९ ॥
१. संस्कृते सिद्धः - ख. । सिद्धः । सम्बोधनवाक्यमिदम् - दी. । २. विञ्छिओ - मु. । विछिओ - ता. । ३. ईः क्षुते - मु. । ई क्षुते - ताटि. । ४. हा ॥ [छुणो (?) । क्षुण्ण (?)] । क्तेनाऽप्फुण्णादय इति णलुक् । कौक्षे० - खः । ५. गुणाद्या:० - ताटि.।