________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥ १.२१५ ॥ [सिढिलो] । शिथिर । हरिद्रादौ लः ॥ [ सढिलो ] । शिथिल । शिथिलेङ्गुदे वा - अत्वम् ॥ १.२१५ ॥
__ निशीथ-पृथिव्योर्वा ॥ १.२१६ ॥ [ पुढवी ] । पृथिवी । पथिपृथिवीत्यत् ॥ १.२१६ ॥ दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः ॥१.२१७॥ [डट्टो ] । दष्ट । ष्टस्याऽनुष्ट्रेष्टेति ठः ।। [डड्डो] । दग्ध । दग्धविदग्धवृद्धीति ग्धस्थाने ढः ॥ [डोहलो ] । दोहद । प्रदीपिदोहदे लः ॥ १.२१७ ।।
दंश-दहोः ॥ १.२१८ ॥ [डसई] । दशति सिद्धः ॥ १.२१८ ॥
सङ्ख्या -गद्गदे रः ॥ १.२१९ ॥ [एआरह, बारह] । एकादशादयः संस्कृतसिद्धाः । दशपाषाणे हः - शस्य हः ॥ तेरह । एत्रयोदशादौ ॥ ते । तद् । अन्त्यव्यं० । जस् । अतः सर्वादेर्डेजसः - जस्स्थाने डेरादेशः ॥ १.२१९ ॥
कदल्यामद्रुमे ॥ १.२२० ॥ केली । वा कदले - कस्य ए: ॥ १.२२० ॥
प्रदीपि-दोहदे लः ॥ १.२२१ ॥ पलीवेइ । णेरदेदा० ॥ १.२२१ ॥ १. सिढिलो - मु. । २. दशनादिसाहचर्यात् आदिभूतस्यैव डः । तेन दोहद इत्यत्र अन्त्यस्य दस्य डो न भवति । दोहं ददाति दुग्धे पूरयत्यभिलाप्यवस्तूनि दुग्धे पूर्यमाणो गर्भ वा कुमुदेति (उणादि. २४४) साधुः (?) - ताटि. । ३. विंशत्यादे० - ताटि.। ४. णेरदेदा० । दोहद । अनादेरित्यधिकारात् आदेर्न भवति । दशनदष्टेत्यत्र तु अन्येषां साहचर्यात् आदेरेव भवति । कदम्बे - क. ।