________________
मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ [कण्डं] । काण्ड । हुस्वः संयोगे ॥ [संढो', पंथो] । शण्ड, पान्थ । हुस्वः संयोगे । ङजणनो व्यञ्जने ॥ [चन्दो] । चन्द्र । द्रे रो नवा ॥ वम्फइ । काङ्क्षराहाहिलंघाहि० - वम्फादेशः ॥ [कलम्बो] । कदम्बे । कदम्बे वा इति दस्य लः ।।
अत्र येषु मकारस्थानिनोऽनुस्वारस्य वर्गान्त्यस्तेषु बाहुलकादनन्त्यस्याऽपि मकारस्य मोऽनुस्वार इत्यनेनाऽनुस्वारः ॥ संहरइ । हंग् । तिव् । त्यादीनामिच् । ऋवर्णस्याऽर् । व्यञ्जनाददन्ते ॥ १.३० ॥
प्रावृट्-शरत्-तरणयः पुंसि ॥ १.३१ ॥ [पाउसो ] | प्रावृष् । उदृत्वादौ । दिक्प्रावृषोः सः ॥ [ सरओ] । शरद् । शरदादेरत् ॥ [एस] । एतद् । तदश्च तः सोऽक्लीबे - सः । अन्त्यव्यञ्जनस्य - दलुक् । सि । वैतत्तदः इति डोविकल्पादन्त्यव्यञ्जनस्येति सिलुक् ॥ १.३१ ॥
स्त्रमदाम-शिरो-नभः ॥ १.३२ ॥ [जम्मो] । जन्मन् । न्मो मः - न्मस्य मः । सेयं । श्रेयस् ॥ सुमणं । सुमनस् ॥ सम्मं । शर्मन् ॥ चम्मं । चर्मन् ॥ १.३२ ॥
वाऽक्ष्यर्थ-वचनाद्याः ॥ १.३३ ॥ [अज्ज]। अद्य । द्यय्यर्यां जः ॥
१. ठ( ठो) ढः, शण्ढो वा - ताटि. । २. यदा करम्ब इति प्रकृतिः तदा हरिद्रादौ लः - खटि.दी. । ३. अथवा वैसेण[मिण]मो सिना - सिना सह एस आदेशः - दी. । ४. यदा 'सुमनस्'शब्दः पुष्पवाची तदा स्त्रीलिङ्गः, परं बाहुलकानपुंसकः । शोभनं मनो यस्येति विग्रहः - ताटि. ।