________________
१२ मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-१ [बुधं ] । बुध्न । अधो मनयाम् ॥ [कंकोडो] । कर्कोट । सर्वत्र ल० । टो डः ॥ [ कुंपलं] । कुड्मल । ड्मक्मोः इति ड्मस्य पः ॥ [विंछिओ] । वृश्चिक । इत् कृपादौ । हूस्वात् थ्यश्चत्सप्सामनिश्चले इति छः ॥ [गिंठी ] । गृष्टि । इत् कृपादौ । ष्टस्याऽनुष्ट्रेति ठः ॥ [वयंसो] । वयस्य । अधो मनयाम् ॥ [मणंसी ] । मनस्विन् । सर्वत्र ल० । अक्लीबे सौ – दीर्घः ॥ [ मणंसिला] । मनश्शिला । कगटडेति शलुक् । [पडंसुआ] । प्रतिश्रुत् । सर्वत्र ल० । पथिपृथिवीप्रतिश्रुन्मूषिकहरिद्राबिभीतकेष्वत् इति
अत् । प्रत्यादौ डः । स्त्रियामादविद्युतः इति तकारस्याऽऽत्वम् ॥ [अवरिं] । उपरि । संस्कृतसिद्धम् । वोपरौ इति उकारस्याऽकारः । पो वः ॥ [अणिउतयं] । अतिमुक्तक । गर्भितातिमुक्तके णः इति तेर्णत्वम् । यमुनाचामुण्डा इति
मलुक । कगटडेति । कगचज० । अवर्णो यश्रुतिः । सि → म् ॥ मणासिला । [मनश्शिला] । लुप्तयरवशषसां शषसां दीर्घः ॥ १.२६ ॥
क्त्वा-स्यादेर्ण-स्वोर्वा ॥ १.२७ ॥ काऊण । कृग् । क्त्वस्तुमत्तूणतुआणाः इति क्त्वायास्तूणः । आः कृगो भूतभविष्यतोश्च
इत्यात्वम् । काउआण । क्त्वस्तुआणः ॥ [वच्छेण] । वृक्ष । ऋतोऽत् । छोऽक्ष्यादौ इति क्षस्य छः । द्वितीयतुर्ययोः० । टा-आमोर्णः ।
टाणशस्येत् ॥ १. पक्षे स्त्रियां नृतो० - ङीप्र. - खटि. । द्वितीये स्त्रियां नृतो इति ङी - दी. । (तेनाऽत्र 'मणंसी, मणंसिणी' इत्युदाहरणद्वयं तदभिमतं स्यात् ।) २. मनसः शिलेव कार्मणोपकरणत्वात् - खटि. । ३. अणिउंतयं - ता. । यमुनाचामुण्डेति मस्याऽनुनासिको न प्रायोग्रहणात् - ताटि. । अणिउँतयं - मु. । ४. तृतीये (-मणोसिला इत्यत्र) अतो डो विसर्गस्येति डो। डित्यन्त्यस्वरादेः - खटि. ।