________________
सूत्रम्-११-१९]
प्राकृतप्रबोधः
स्वरेऽन्तरश्च ॥ १.१४ ॥ [अंतरप्पा] । अन्तरात्मन् । ह्रस्वः संयोगे । भस्मात्मनोः पो वा । अनादौ० - द्वित्वम् ।
अन्त्यव्यञ्जनस्य - लुक् । सि । पुंस्यन आणो राजवच्चेत्यतिदेशात् राज्ञ इत्यनेना
ऽस्याऽऽत्वम् । सेरन्त्यव्यञ्जनस्य - लुक् ॥ [निरवसेसं] । निरवशेष । शषोः सः ॥ [अंतोउवरिं ] । अन्तर् । अन्त्यव्यञ्जनस्य - रलुक् । सेझैः । उपरि संस्कृतसिद्धः । वक्रादावन्त इत्यनुस्वारः ॥ १.१४ ॥
स्त्रियामादविद्युतः ॥ १.१५ ॥ [पाडिवया ] । प्रतिपद् । सर्वत्रेति रलुक् । अतः समृद्ध्यादौ वा - आत्वम् । प्रत्यादौ
डः । पो वः । सूत्रेण आत्वम् । अवर्णो यश्रुतिः ॥ [विज्जू ] । विद्युत् । द्यय्यर्यां जः । अनादौ० - द्वित्वम् । अन्त्यव्यञ्जनस्य - त-स्योर्मुक् । अक्लीबे सौ - दीर्घः ॥ १.१५ ॥
रो रा ॥ १.१६ ॥
क्षुधो हा ॥ १.१७ ॥ [छुहा ] । क्षुध् । छोऽक्ष्यादौ, खबाधनार्थं छकारः । सि । अन्त्यव्यञ्जनस्य ॥ १.१७ ॥
शरदादेरत् ॥ १.१८ ॥ [ सरओ] । शरद् । प्रावृटशरत्तरणयः पुंसि इति पुंस्त्वम् ॥ १.१८ ॥
दिक्-प्रावृषोः सः ॥ १.१९ ॥ [दिसा] । दिश् । ऋत्विग्दिश इत्यादिना दिग् । अनेन स । आत् इत्याप् । सि ।
अन्त्यव्यञ्जनस्य ॥ [पाउसो]। सर्वत्र ल० । उदृत्वादौ - ऋकारस्य उत्वम् । प्रावृटशरत्० - पुंस्त्वे से?ः ।। १.१९॥
१. अन्तोवरि - मु. । (-अशुद्धमिदम् ।) अन्तोउवरिं - ता. । २. सिद्धः । पो वः । स्त्रिया० - क. । (एतदनुसारम् 'अन्तोउवरि' सिध्यति ।) ३. पडिवया - ता. । पाडिवया - मु. । ४. वा - दीर्घपाठः । प्रत्यादौ० - क. । वा - दीर्घः । प्रत्यादौ० - दी. । ५. दीर्घः । रो रा । गिर् । धुर् । पुर् प्र. । अनेन रादेशः । अन्त्यव्यञ्जनस्य - सिलुक् । क्षुधो० - ख.।