________________
२०६ मलधारि-श्रीनरचन्द्रसूरि-विरचितः
[पादः-४ [रविअथवणि] । रविअस्तमयने । स्तस्य थोऽसमस्त० । मोऽनुनासिको वो वा ।
कगचजेति यलुक् । स्वराणां स्व० - अकारेण सह अकारः ॥ [कंठि विअण्णु] । कण्ठे वितीर्णम् । स्वराणां स्व० - अः ॥ [न छिण्णु] । न छिन्नम् ॥ [चक्के खंडु] । चक्रेण खण्डम् ॥ [मुणालिअहे] । मृणालिकायाः । स्वराणां० - उ: । ङस्ङस्योर्हे । स्यादौ दी० ॥ [नउ जीवग्गलु] । इव जीवार्गला ।। [दिण्णु] । दत्ता । स्वराणां० - इः । पञ्चाशत्पञ्चदशदत्ते - णः ॥ [वलयावलि-निवडण-भएण] | वलयावलिनिपतनभयेन । [धण उद्धब्भुअ] । नायिका ऊर्ध्वभुजा । सेवादौ वा प्राप्तौ द्वितीयतुर्ययोरुपरि० ॥ [जाइ] । याति ॥ [वल्लहविरहमहादहहो ] । वल्लभविरहमहाहृदस्य । हूदे हदोः । ङसः सुहोस्सवः ॥ [ थाह] । स्ताघम् । स्तस्य थोऽसमस्तस्तम्बे । खघथधभाम् ॥ गवेसइ । गवेषण मार्गणे । प्राकृतत्वान्न णिच् । तिव् → इच् । व्यञ्जनाद० ॥ [पेक्खेविणु मुहु जिणवरहो ] । प्रेक्ष्य मुखं जिनवरस्य ॥ [दीहरनयण सलोणु] । दीर्घनयनं सलवणम् । खघथधभाम् - हः । रो दीर्घात् - र
प्रत्ययः । न वा मयूखलवणचतुर्थचतुर्गुण० - ओ ॥ [नावइ गुरुमच्छरभरिउ] । इव गुरुमत्सरभृतम् । भृग् । क्तः । ऋवर्णस्याऽरः । व्यञ्जनाद०।
स्वराणां० - इ॥ [जलणि पवीसइ] । ज्वलने प्रविशति । स्वराणां स्व० - ईः ।। [लोणु] । लवणम् ॥ [चंपयकुसुमहो] । चम्पककुसुमस्य । १. अत्थमणि - मु. । २. विइण्णु - मु. ।