________________
सूत्रम् - ८-१०]
प्राकृतप्रबोध:
कुति । कृग् । कृग: कुणः । अन्ति । बहुष्वाद्यस्य न्तिन्तेइरे - न्ति । व्यञ्जनाददन्ते ||
[ निसाअरो, निसिअरो]। निशाचर अथवा निशाकर । शषोः सः । इः सदादौ वा - इर्वा ॥
[ रयणीअरो ] । रजनीचर अथवा रजनीकर । कगेति ज-च-कानां लुक् ॥
[ मणुअत्तं ] । मनुजत्वम् । नो णः । करोति जलुक् । सर्वत्रेति वलुक् । अनादौ ० द्वित्वम् ॥
[कुंभयारों ] । कुम्भकार । बाहुलकात् मोऽनुस्वारः । करोति लुक् । अवर्णो यश्रुतिः ॥
[ सूरिसो ] । सुपुरुष । करोति पलुक् । पुरुषे रो: - इः ।।
[ सालाह ] । सातवाहन । अतसीसातवाहनेति तस्य लः । कगचजेति वलुक् । द्वित्वम् । कगेति व-कयोर्लुक् ।
[ चक्काओ ]। चक्रवाकैं । सर्वत्रेति रलुक् । अनादौ० I स्यादिः ॥ १.८ ॥
त्यादेः ॥ १.९ ॥
[ होइ]। भू । भुवो होहुवहवा: । तिव् । त्यादीनामाद्येति इच् ।
[ इह ] । इदम् । ङि । इदम इमः । ङेर्मेन हः मकारेण सह ङेर्हः ॥ १.९ ॥
लुक् ॥ १.१० ॥
[तिअसीसो ] । त्रिदश - ईश । सर्वत्रेति रलुक् । करोति दलुक् । शषोः सः ॥ [नीसासूसासा ] । निर्श्वास - उश्वास । निर्दुरोर्वेति निषेधविकल्पपक्षे अन्त्यव्यञ्जनस्य । लुकि निर: दीर्घः । सर्वत्रेति वयोर्लुक् । शषोः सः । संस्कृते छ(च्छ)कारस्य सम्भवात् अनुत्साहोच्छन्ने त्सच्छे - ऊत्वम् । औ । द्विवचनस्य बहुवचनम् - जस् । जस्शसोर्लुक् । जस्शस्ङसित्तोदोद्वामि दीर्घः ॥ १.१० ॥
१. कुम्भआरो- मु. । कुंभयारो - ता. । २. सातं दत्तं वाहनं येन स अथवा सातनामा सिंहरूपो यक्षः, स वाहनमस्य स सात० - खटि.दी. । ३. चक्रवच्चक्रम् । वक्तीति भावे घञ् । ञ्णिति वृद्धि: खटि । ४. ('उच्छ्वास' इत्यत्र ) ।
-