________________
सूत्रम्-१८३-२१४]
प्राकृतप्रबोधः भासेर्भिसः ॥ ४.२०३ ॥
ग्रसेर्घिसः ॥ ४.२०४ ॥
अवाद् गाहेर्वाहः ॥ ४.२०५ ॥ ओवाहइ । अवापोते - ओत्वम् ।। ४.२०५ ॥
आरुहेश्चड-वलग्गौ ॥ ४.२०६ ॥ आरुहइ । बाहुलकात् न युवर्णस्य गुणः ॥ ४.२०६ ॥
मुहेर्गुम्म-गुम्मडौ ॥ ४.२०७ ॥ मुज्झइ । युधबुधगुधेति ज्झः ॥ ४.२०७ ॥
दहेरहिऊला-ऽऽलुंखौ ॥ ४.२०८ ॥ डहइ । दंशदहोर्डः ॥ ४.२०८ ॥ ग्रहो बल-गेण्ह-हर-पंग-निरुवारा-ऽहिपच्चुआः ॥ ४.२०९ ॥
क्त्वा-तुम्-तव्येषु घेत् ॥ ४.२१० ॥ घेत्तुं । बाहुलकात् व्यञ्जनाददन्ते न भवति । क्त्वस्तुमत्तूणतुआणाः ॥ गेण्हिअ । ग्रहो बलगेण्ह० । क्त्वा । क्त्वस्तुम० - अत् । व्यञ्जनाद० । एच्च क्त्वातुम्तव्य० ॥ ४.२१० ॥
वचो वोत् ॥ ४.२११ ॥
रुद-भुज-मुचां तोऽन्त्यस्य ॥ ४.२१२ ॥ सर्वेषु युवर्णस्य गुणः ॥ ४.२१२ ॥
दृशस्तेन ठः ॥ ४.२१३ ॥
आः कृगो भूत-भविष्यतोश्च ॥ ४.२१४ ॥ काहीअ । सीहीहीअ भूतार्थस्य ॥ काहिह । भविष्यति हिरादिः ॥ ४.२१४ ।।
१. ग्रहो वल० - मु.।