________________
चतुर्थोऽध्यायः। स्त्रीणां चन्द्रसितौ नपुंसकपती सोमात्मजार्कात्मजौ __पुंसां जीवदिवाकरक्षितिसुता विप्रस्य शक्रोऽङ्गिराः। राज्ञां सूर्यकुजौ विशां शशधरो मिश्रस्य मन्दो बुधः ... शूद्राणां शिखिभूखतोयमरुतां भौमादयः कीर्तिताः ॥१४॥ कटुलवणतिक्तमिश्रितमधुराम्लकषायरसविशेषाणाम् । सुरतोयाग्निविहारार्थशयनपांसूत्कराणां च ॥ १५ ॥ वस्त्राणां स्थूलाहतशिखिजलहतमध्यदृढसुजीर्णानाम् । ताम्रमणिहेममिश्रितरूप्यकमुक्तायसां वाऽपि ॥ १६ ॥ अयनक्षणदिवसर्तुकमासतदर्धशरदां दिनेशाद्याः । शिशिरादीनामीशाः शनिसितभौमेन्दुबुधजीवाः॥१७॥ लग्नाधिपतेस्तुल्यः कालो लग्नोदितांशकसमाख्यः । वक्तव्यो रिपुविजयो गर्भेषु च कार्यसंयोगे ॥ १८ ॥
ऋग्वेदाधिपतिर्जीवो यजुर्वेदपतिः सितः। सामवेदाधिपो वक्रः शशिजोऽथर्ववेदराट् ॥ १९ ॥ सुरपूज्यः शशिशुक्रौ दिनकरभौमौ बुधार्कजौ नाथाः । विबुधमनुष्यपितॄणां तिर्यङ्नरकाधिवासानाम् ॥ २० ॥ स्वल्पाकुञ्चितमूर्धजः पटुमतिर्मुख्यस्वरूपस्वनो
नात्युच्चो मधुपिङ्गचारुनयनः शूरः प्रचण्डः स्थिरः । रक्तश्यामतनुर्निगूढचरणः पित्तास्थिसारो महान्
गम्भीरश्चतुरस्रकः पृथुकरः कौसुम्भवासा रविः ॥ २१ ॥ सौम्यः कान्तविलोचनो मधुरवाग्गौरः कृशाङ्गो युवा
प्रांशुः सूक्ष्मनिकुञ्चितासितकचः प्राज्ञो मृदुः सात्विकः । चारुर्वातकफात्मकः प्रियसखो रक्तैकसारो घृणी
वृद्धस्त्रीषु रतश्चलोऽतिसुभगः शुभ्राम्बरश्चन्द्रमाः ॥ २२ ॥ हखः पिङ्गललोचनो दृढवपुर्दीप्ताग्निकान्तिश्चलो
मजावानरुणाम्बरः पटुतरः शूरश्च निष्पन्नवाक् ।
१ सुरग्रहकाग्नि. २ चन्द्रसुतः.
Aho! Shrutgyanam