________________
१९२
सारावली ।
दुष्टस्वभावरामाप्रियोऽर्थभाग्वृश्चिकाद्यर्थे ॥ १५ ॥ विस्तीर्णोपचितायतपीनाङ्गः क्ष्माधिपोपसेवी स्यात् । बहृणमित्रसमेतः स्फुटिताक्षो वृश्चिकापरार्धे स्यात् ॥ १६ ॥ दारितपृथुमुखवक्षाः परिकुञ्चितनेत्रगण्डः स्यात् । बाल्ये त्यक्तात्मगुरुथापायर्धे तपस्वी च ॥ १७ ॥ पद्माक्षो दीर्घमहाबाहुः शास्त्रार्थवित्सुमूर्तिः स्यात् । वाक्सुभगो धन्योऽपि च धनुरपरे निर्वृतो यशस्वी च ॥ १८ ॥ श्यामो मृगाक्षधन्यः स्त्रीष्वजितः सौम्यमूर्तिशठ आढ्यः । सृष्टाशनः सुचेष्टो मृगाद्यभागे तनूचघोणः स्यात् ॥ १९ ॥ रक्तान्तदृष्टिरलसो गुरुदीर्घाटनपरो भवति मूर्खः । श्यामो रोमचिताङ्गस्तीक्ष्णः सहसः सुरौद्रकर्मा च ॥ २० ॥ स्त्रीमित्रभागरसविन्मृदुलोऽल्पसुतश्च सद्गुणः शूरः । ताम्रो भाखरवर्णो यानमतिः कुम्भपूर्वार्धे ॥ २१ ॥ आताम्रदारिताक्षः कृशः स्थिरोऽयल्पमूर्तिरलसः स्यात् । नैकृतिकः सुविषादी कृपणः कुम्भापरे सुशठः ॥ २२ ॥ ह्रखः पृथुचारुतनुर्महाललाटो वृहद्वदनवक्षाः । स्त्रीति मीनार्थे प्रथमे सुयशाः क्रियापटुः शूरः ॥ २३ ॥ दाता सुतुङ्गनासो निपुणो मेधान्वितः शुभदनेत्रः । नृपदयितः स्त्रीसुभगश्चारुमीनापरे सुवाक्यः स्यात् ॥ २४ ॥ चन्द्रार्कयोरेकतरे बलस्थे होरापतिः पश्यति केन्द्रगो वा । होरा यथोद्दिष्टफलप्रदा स्याद्गर्भस्थसत्वस्य समुद्भवेषु ॥ २५ ॥
इति कल्याणवर्मविरचितायां सारावल्यां होरागुणो नाम अष्टचत्वारिंशोऽध्यायः ॥
१ सुवेवो.
Aho! Shrutgyanam