________________
सारावली।
द्वितीयोऽध्यायः। विधात्रा लिखिता यासौ ललाटेऽक्षरमालिका । दैवज्ञस्तां पठेव्यक्तं होरानिमलचक्षुषा ॥१॥ आद्यन्तवर्णलोपाद्धोराशास्त्रं भवत्यहोरात्रम् । तत्प्रतिबद्धश्वायं ग्रहभगणश्चिन्त्यते यस्मात् ॥ २॥ कर्मफललाभहेतुं चतुराः संवर्णयन्त्यन्ये । होरेति शास्त्रसंज्ञा लग्नस्य तथाधराशेश्च ॥ ३ ॥ जातकमिति प्रसिद्धं यल्लोके तदिह कीर्त्यते होरा । अथवा दैवविमर्शनपर्यायः खल्वयं शब्दः ॥ ४ ॥ अर्थार्जने सहायः पुरुषाणामापदणवे पोतः । यात्रासमये मत्री जातकमपहाय नास्त्यपरः ॥ ५ ॥ इति कल्याणवर्मविरचितायां सारा वल्यां होराशब्दार्थ
. चिन्ता नाम द्वितीयोऽध्यायः ॥
D
तृतीयोऽध्यायः । तमसावृते समन्ताजलभूते भूतले ततोऽकस्मात् । उदितो भगवान् भानुः प्रकाशयन् स्वप्रकाशेन ॥१॥ व्यसृजज्जगत्समस्तं ग्रहक्षसंघातकल्पितावंगतम् ।... द्वादशभेदैश्चित्रः कालः संप्रस्तुतस्तस्मात् ॥२॥ मेषवृषमिथुनकर्कटसिंहाः कन्या तुलार्थं वृश्चिककः । धन्वी मकरः कुम्भो मीनस्त्विति राशिनामानि ॥३॥ कुम्भः कुम्भधरो नरोऽथ मिथुनं वीणागदाभृन्नरो . - मीनौ मीनयुगं धनुश्च सधनुः पश्चाच्छरीरो हयः । एणास्यो मकरः प्रदीपसहिता कन्या च नौसंस्थिता
शेषो राशिगणः स्वनामसदृशो धत्ते तुलाभृत्तुलाम् ॥ ४ ॥ शीर्षास्यबाहुहृदयं जठरं कटिबस्तिमेहनोरुयुगम् । जानू जथे चरणौ कालस्याङ्गानि राशयोज्जाद्याः॥५॥ १ त्यहोरात्रात्. २ वयवम्. ३ ग्रहभवनाद्यैः; ग्रहदशभेदैः. ४ तुलाऽलयश्चैव. ५ जानुक.
Aho ! Shrutgyanam