________________
सारावली। रक्तश्यामोऽतिशूरो रिपुबलमथनः कम्बुकण्ठः प्रधानः क्रूरो भर्ता नराणां द्विजगुरुविनतः क्षामसज्जानुजङ्घः ॥३१॥ खट्वाङ्गपाशवृषकार्मुकवज्रवीणा
रेखाङ्कहस्तचरणश्च शताङ्गुलश्च । मत्राभिचारकुशलस्तुलया सहस्रं
मध्ये च तस्य कथितं मुखदैर्ध्यतुल्यम् ॥ ३२ ॥ विन्ध्याचलसह्यगिरीन् भुनक्ति सप्ततिसमा नगरदेशान् । शस्त्रानलकृतमृत्युः प्रयाति देवालयं रुचकः ॥ ३३॥
॥ इति रुचकः ॥ तनुद्विजास्यो द्रुतगः शशोऽयं शठोऽतिशूरो निभृतप्रतापः । वनाद्रिदुर्गेषु नदीषु सक्तः कृशोदयी नातिलघुः प्रसिद्धः ॥३४॥
सेनानाथो निखिलनिरतो दन्तुरश्चापि किंचित्
धातोर्वादे भवति निरतश्चञ्चलः कोशनेत्रः । स्त्रीसंसक्तः परधनगृहो मातृभक्तः सुजको
मध्ये क्षामो बहुविधमती रन्ध्रवेदी परेषाम् ॥३५॥ पर्यशङ्खहरिशस्त्रमृदङ्गमाला
वीणोपमा यदि करे चरणे च रेखाः । वर्षाणि सप्ततिमितानि करोति राज्यं प्रत्यन्तिकः क्षितिपतिः कथितो मुनीन्द्रैः ॥ ३६॥
॥ इति शशः ॥ रक्तास्योन्नतनासिकः सुचरणो हंसः प्रसन्नेन्द्रियो
गौरः पीनकपोलरक्तकरजो हंसस्वरः श्लेष्मलः । शङ्खाब्जाङ्कुशदाममत्स्ययुगलः खदाङ्गचापाङ्गद
श्चिह्नः पादकराङ्कितो मधुनिभे नेत्रे च वृत्तं शिरः ॥ ३७॥ सलिलाशयेषु रमते स्त्रीषु न तृप्तिं प्रयाति कामातः । षोडशशतानि तुलितोऽङ्गुलानि दैर्येण षण्णवतिः ॥ ३८॥
१ श्लक्ष्णः श्यामो. २ चक्रासि. ३ पीत. ४ मणः. ५ क्रत्वङ्गमालांघटैः.
Aho! Shrutgyanam