________________
सप्तत्रिंशोऽध्यायः। मेधावी युधि निर्भयो हिमरुचिब्रूते निगृह्यापरान् नो भीतः प्रणयं प्रयाति बहुभिः कुर्यान्नतानां प्रियम् ॥२४॥ स्वप्नेऽभिपश्यति सुवर्णदिनेशदीपान्
दावाग्निकिंशुकजपामणिकर्णिकारान् । रक्ताब्जषण्डरुधिरौषतटित्समूहान्
पित्ताधिको निगदितः खलु लक्षणज्ञैः ॥ २५ ॥ श्रीमान् श्लिष्टाङ्गसन्धिधृतिबलसहितः स्निग्धकान्तिः सुदेहो
ग्राही सत्वोपपन्नो हतमुरजघनध्वानघोषः सहिष्णुः । गौरो रक्तान्तनेत्रो मधुररसरुचिर्बद्धवैरः कृतज्ञः क्लेशे चास्यादखिन्नः सकलजनसुहृत्पूजको वा गुरूणाम् ॥२६॥
सुप्तस्तु पश्यति समुद्रनदीसरांसि
मुक्ताफलप्रकरहंससिताब्जशलान् । नक्षत्रकुन्दकुमुदेन्दुतुषारपातान्
श्लेष्माधिको मुनिवरैः कथितः क्रमेण ॥ २७॥ बलरहितेन्दुरविभ्यां युक्तैौमादिभिर्ग्रहैमिश्राः । न भवन्ति महीपाला दशासु तेषां सुतार्थयुताः ॥२८॥ न स्थूलोष्ठो न विषमवपुर्नातिरक्ताङ्गसन्धि
मध्ये क्षामः शशधररुचिर्हस्तिनादः सुगन्धः । सन्दीप्ताक्षः समसितरदो जानुदेशाप्तपाणि
लिव्योऽयं विलसति नृपः सप्तैतिर्वत्सराणाम् ॥२९॥ वक्रं त्रयोदशमितानि दशाङ्गुलानि
दैर्येण कर्णविवरं दशविस्तरेण । मालव्यसंज्ञमनुजः स भुनक्ति नूनं लाटान्समालवससिन्धुसपारियात्रान् ॥ ३० ॥
॥ इति मालव्ययोगफलम् ॥ दीर्घास्यः स्वच्छकान्तिर्बहुरुचिरबलः साहसावप्तिकार्य
श्चारुभ्रूनीलकेशश्चरणरणरतो मत्रविचोरनाथः । __१ नो. २ हस्तिसार. ३ वयः. ४ सप्ततिं वत्सराणाम्. ५ दाप्त.
Aho ! Shrutgyanam