SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ हढाकसिद्धान्ताः । ८५ अथ चक्रवालगणिते दृढाङ्कसिद्धान्तेन नूतनः क्षेपो निरनो जातस्तदर्थ कतिपयदृढाङ्कसिद्धान्तान् प्रदर्शये । अत्र संख्याशब्देनाङ्केन वा सर्वत्र पूर्णा धनसंख्या ग्राह्या । (१) या संख्या स्वायन वा रूपेणैव निःशेषा भवति सा दृढसंख्या यथा, २, ३, ५, ७ इत्यादयः । अतोऽन्यथाऽदृढसंख्या ज्ञेया । यथा, ४, ६, ८, ९, इत्यादयः । (२) रूपाद्यकोत्तरा अङ्का यथेच्छाः क्रमेण स्थाप्याः । यथा ११, १२, १३, १४, १५, १६, १७, १८, १९, २० २१, २२, २३, २४, २५, २६, २७, २८, २९, ३० ३१, ३२, ३३, ३४, ३६, ३६, ३७, ३८, ३९, ४० ४१, ४२, ४३, ४४, ४५, ४६, ४७, ४८, ४९, ५० (इत्यादयः) अत्र प्रथमं २ दृढसंख्या ग्राह्या । अनया या या एकान्तरा अपवर्त्या भवन्ति तासामुपरि विन्दुः स्थाप्यः । ततोऽपरा अचिन्हिता ३ संख्या ग्राह्या । अनया या या द्वयान्तरा अपवास्तासामुपरि पुनविन्दुः स्थाप्यः । ततोऽप्यपरा अचिन्हिता ५ संख्या ग्राह्या । अनया चतुरन्तरिता या या अपवास्तासामुपरि पुनर्विन्दुः स्थाप्यः । ततोऽपरा अचिन्हिता ११ संख्या ग्राह्या । अनया या या दशान्तरिता अपवास्तासामुपरि पुनर्विन्दुः स्थाप्यः । एवं ततोऽप्यपरामाचन्हितां संख्या गृहीत्वा क्रिया कार्या । एवं यावतीः संख्याः संगृह्य क्रिया कृता तासामचिन्हिता दृढा ज्ञेयाः । यथा अत्र १-५० संख्या गृहीतास्तत्र २, ३, ५, ७, ११, १३, १७, १९, २३, २९, ३१, ३७, ४१, ४३, Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy