________________
करणप्रकाशे। गतिर्ग्रहयोरन्तरलिप्ताभिर्हता एकस्मिन् ग्रहे वक्रिणि गत्योर्योगेनान्यथाऽन्तरेण भाजिता । लब्धाः कला अगते गम्ये योगे स्वं कार्या गते योगे च ऋणं कार्याः । वक्रगते आहे तु अन्यथा विपरीत कार्याः। गम्ये ऋणं गते धनं कार्यास्तदा तौ खेटौ समौ भवत इत्यर्थः । ____ अत्रोपत्तिः । यद्यकस्मिन् ग्रहे वक्रिणि गतियोगेनान्यथा गत्यन्तरेणैकं दिनं तदा ग्रहान्तरलिप्ताभिः किम् । लब्धानि गम्यगतदिनानि = तत एकेन दिनेन ग्रहगतिकलास्तदा पूर्वागत गतगम्यर्दिनः किम् । लब्धाश्चालनकलाः = ग.X धनर्णवासना चातिस्फुय।।३। नवदिनेशरसाऽर्कदिवाकरा
दशगुणाः खलु बाणकलाः कुजातू । ९०।१२०६०।१२०।१२० युगयमाऽष्टरसाऽम्बरभूमयो
दशहता इह पातलवाःस्मृताः॥४॥ ४०२०1००६०११०० कुजादीनां मध्यमाः परमाः शरकलाः कु. ९० । वु. १२० । गु. ६० । शु. १२० । श. १२० । पातभागाश्च कु ४० । वु. २० । गु. ८० । शु. ६० । श. १०० ।
अत्रोपपत्तिः । शीघप्रत्तिवृत्तगोले ये शराः परमा उपलब्धास्ते पठितास्तथा ग्रहमन्दोच्चवत्कुजादिपातानामत्यल्पगतित्वात् स्वसमयोपलब्धाः स्थिरा भागाः पठिताः । तथा च स्वतन्त्रे लल्लः । नन्दसूर्यरससूर्यभानवो दिग्गुणाः शरकलाः कुजादितः । वेदलोचनगजाङ्गखेन्दवः पातजाः स्युरथ दिग्गुणा लवाः ॥ आचार्येण लल्लोदिता एव पठिता इति ॥ ४ ॥ युगाश्विनः षट्कृतिरश्ववेदा स्तम्बेरमाम्भोनिधयः खरामाः। व्योमेन्दुनिघ्ना निजकर्णभक्ताः कुजादितो विम्बकला भवन्ति ॥५॥
Aho! Shrutgyanam