SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४८ करणप्रकाशे । विम्बान्तरसूत्रं स्यादिति सर्व स्फुटमेव ॥ ४ ॥ भानुवार्जतसुधाकरांशकाः स्यात् सितं तिथि-१५ विभाजिताः सिते । व्योमकुञ्जरशशाङ्क-१८० वर्जिताः ___ स्यात् तथैव बहुलेऽसितं भवेत् ॥ ५॥ सिते शुक्लपक्षे भानुवर्जितसुधाकरांशकाः सूर्योनचन्द्रांशकाः पञ्चदशभक्ताः सितं सिताङ्गुलानि स्यात् । बहुले कृष्णपक्षे तेऽन्तरांशा व्योमकुञ्जरशशाङ्कतो वर्जितास्ततः पञ्चदशहृता असितं स्यादित्यर्थः । अत्रोपपत्तिः । पञ्चदशभिरंशैरेकं सिताङ्गुलं प्रकल्प्यानुपातेन शुक्लाङ्गुलानि भवन्ति शुक्लपक्षे । कृष्णपक्षे तु सितम्=अं. इदं द्वादशशुद्धं जातमसितम्=१२-अं = १४०-अं भ । अत उपपन्नं सर्वम् ॥ ५ ॥ विन्दोर्बाहुः संनिवेशो यथाऽऽशं पश्चाद्देशे प्राङ्मुखी कोटिरस्मात् । - प्राच्यामिन्दोः पश्चिमाशामुखी स्यात् कर्णस्तिर्यग्बाहुकोट्यग्रमध्ये ॥६॥ स्पष्टार्थम् ॥ ६ ॥ कर्णकोटियुजि षड्भिरङ्गुलमण्डलं शशभृतः समालिखेत् । आनयेदपरतः सितं विधोः कर्णमार्गगमथासितेऽसितम् ॥ ७ ॥ स्पष्टार्थम् ॥ ७ ॥ सिताङ्ग-विश्लेषदलेन नन्दा ६ हृता धिकाः स्यात् परिलेखसूत्रम् । नीतेन शुक्लादनुकर्णगत्या वृत्तं लिखेत् तेन सितप्रसिद्धयै ॥ ८॥ इति करणप्रकाशे शृङ्गोन्नत्यधिकारः॥ ॥ सिताङ्गयोरन्तरार्धेन नव हृता लब्धिश्च सिताङ्गान्तरार्धेनाधिका परिलेखसूत्रं स्यादिति । Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy