________________
करणप्रकाशे।
अथ स्पष्टाधिकारः ।
रूपाग्नयो नवयमाः शरलोचनानि नन्देन्दवो दिनकराः श्रुतयः क्रमेण । ज्याङन्यमूनि वसुशैललवा इनोच्च खेदं मृदुञ्चरहितं मृदुकेन्द्रमाहुः॥१॥ ज्यार्धानि ३१।२९।२५।१९।१२।४ सूर्यमन्दोच्चांशाः ७८ ।
स्पष्टार्थम् । अत्रोपपत्तिः । पञ्चदशपञ्चदशभागानां खार्कमितव्यासाढ़े ज्योत्पत्तिविधिना जीवाः प्रसाध्य ता अधोऽधो विशोध्य वृत्तपादे रूपाग्रयो नवयमा इत्यादि ज्यानि षट् पठितानि । आर्यभटेन मन्दोच्चस्यात्यल्पगतित्वात् रविमन्दोच्चमागा ये वसुनगमिताः पठितास्त एव स्वल्पान्तरात् सुस्थिराएवाचार्येणापि पठिता इति सर्व स्फुटमेव सिद्धान्तविदामिति ॥ १ ॥
केन्द्र त्रिभादनधिके सति दोस्तदेव
राशिवयात् समधिके पतिते भषट्वात् । षड्भोनिते, षडधिके रहिते भचक्रा
नन्दाधिके भवति बाहुरिहावशेषम् ॥२॥ स्पष्टार्थम् ।
अत्रोपपत्तिः । अयुग्मे पदे यातमष्यं तु युग्म-इत्यादि भास्करविधिना स्फुटैवेति ॥ २॥
भागीकृते तत्र शरेन्दु-१५ भक्त
भुक्तज्यका संगुणितेऽवशेषे । भोग्यज्यया बाणशशाङ्क-१५ भक्ते
भुक्तज्यका योगयुते भुजज्या ॥३॥ स्पष्टार्थम् ।
ज्याट्टेभ्यः पठितेभ्यश्चापतो ज्यानयनमनुपातेन स्पष्टमिति वासना सिद्धान्तविदां विदितैव कि लेखप्रयासेनेति ॥ ३ ॥
Aho ! Shrutgyanam