________________
वृद्धवसिष्ठसिद्धान्तः । यस्मिन् काले क्रान्तिसाम्ये रवीन्हो___ स्तस्मिन् काले संज्वलज्ज्वालजालें। स्नानं जप्तं प्राणिभिदत्तमत्र
तत्तजज्ञात्वा सर्वमक्षय्यमेति ॥ ३३ ॥ इत्येतत् परमं पुण्यं गुह्यमध्यात्मसंज्ञकम् । गोपनीयं प्रयत्नेन तवाग्रे कथितं मया ॥ ३४ ॥ एतच्छिष्याय शुद्धाय कालजाय मनस्विने । कृतज्ञाय विनीताय दातव्यं च द्विजोत्तम ॥ ३५॥ .. मूर्खाय टुष्कलौनाय तथा चानृतवादिने । कुपरीक्षितशिष्याय दातव्यं न कदाचन ॥ ३६ ॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठ प्रणीते गणितस्कन्ध विश्वप्रकाशे
पाताधिकार एकादशः ॥ ११ ॥ वामदेवोऽथ तच्छुत्वा हर्षप्रोत्फुल्ललोचनः । नत्वा प्रदक्षिणीकृत्योपविश्य च तदग्रतः ॥ १ ॥ कृताञ्जलिविनीतात्मा प्रत्युवाच पुनः स तम् । शान्तात्मानं सुखासीनं वसिष्ठं भक्तवत्स.लम् ॥ ३॥
वामदेव उवाच । गुरो कृपानिधे नाथ भक्तानुग्रहकारक । त्वत्प्रसादान्या ज्ञातं ज्योतिषां चरितं महत् ॥ ३ ॥ अथात: श्रोतुमिच्छामि ब्रह्माण्डं तत् कियन्मितम् ।
Aho ! Shrutgyanam