________________
ज्यौतिषसिद्धान्तसंग्रहे गुणिताः खोंदयासुभिः । विभक्त्याऽऽप्ताः स्फुटांशास्ते
तैः स्युश्या अदर्शनाः ॥ १८ ॥ प्रागुद्गमः सदैतेषां पश्चादस्तमयस्तथा । रविद्युभत्याऽऽवाप्तिः स्यादिनादेर्गतगग्ययोः ॥ १६ ॥ चाहिर्बुध्न्याभिजित् खातिब्रह्महङ्गानि वासवम् । भानुभाभिन लुप्यन्ते घदगदिक्वादिषोस्तथा ॥२०॥ इति श्रीब्रह्मर्षिवृद्धवसिष्ठप्रणौते गणितस्कन्धे विश्वप्रकाश ग्रहोदयास्ताधिकारी नवमः॥ ॥
वसिष्ठ उवाच ॥ अर्थतः संप्रवच्यामि दृश्यादृश्यं विधोस्तथा। घटकोन्नतिं द्विजश्रेष्ठ कालं तदुदयास्तयोः ॥१॥ दृश्यादृश्यविधिः प्राग्वत् कार्यश्चन्द्रमसोऽन्तरैः। हादशांशमितेः पश्चादृश्यः प्राग्यात्यदृश्यताम् ॥२॥ अथार्केन्दोः स्फुटक्रान्त्योदिक्साम्ये विवरं युतिः । दिग्भेदे तज्ज्यका कार्या ज्ञेया सा दक्षिणोत्तरा ॥३॥ दिगैक्योल्पा विधोः क्रान्ती रवेः क्रान्तेयंदा तदा। चन्द्रक्रान्तिदिशो वामं ज्ञेया ज्या दक्षिणोत्तरा॥४॥ वा दिगैक्येऽधिका क्रान्तिस्तदा क्रान्तिदिगेव दिक। दिग्भेदेऽल्पाऽधिका क्रान्तिस्तदा क्रान्तिदिगेव दिक् ॥५॥ मध्यरत्तगतेन्दो कर्णासंगुणिता तु सा।
Aho ! Shrutgyanam