SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ज्योतिषसिद्धान्तसंग्रहे अगस्त्यस्य मुनेस्तात कर्कटादौ स्थितिः स्मृता । याम्यदिकश्च विक्षेपः प्रोक्तस्तस्य खकुचरा: ८० ॥६॥ लुब्धकस्य खनागां-७० शा याम्ये बाणाः खसागरा: ४० । वह्वेर्द्विबाणाः ५२ सौम्येषु गजा ८ ब्रह्महृदस्तथा ॥ १० ॥ बाणाः खाग्निमिता: ३० सौम्ये नगबाणाः ५७ प्रजापतेः । तस्य बाणांशकाः प्रोक्ताः सौम्ये कुञ्जरवह्नयः ३८ ॥ ११ ॥ अपांवत्मापयोर्भाधै सौग्ये पञ्च ५ रसाः ६ शराः । निरक्षदेशे सृष्ट्यादी तत्स्थितिब्रह्मणोदिता ॥ १२ ॥ वर्तमानयुगे गोलं विरचय्य हिजोत्तम । तारकाणां स्थितिः साध्या तथा विक्षेपकांशकाः॥१३॥ स्थितिर्यस्यादिवेदा ४७ शे विक्षेपोऽभ्यधिको हयात् । भागात् किञ्चित् तदा भिन्द्या द्रोहिण्याः शकटं तु सः ॥ १४ ॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy