________________
वृद्धवसिष्ठसिद्धान्तः ।
पश्चिम दिग्गतिवायुप्रवह निबद्धे भपञ्जरे शीघ्रम् ।
भ्रमति सखचरे सत्यपि
खेटा गतितः प्रयान्ति पूर्वदिशम् ॥ १२ ॥ सृष्ट्यादौ मधुशुक्लप्रतिपदि भानुर्ग्रहाच मेषादौ । मेषादिगा युगादी खेटाश्चातोऽन्यथा च म्टदुपाताः ॥ १३॥ दशगुर्वच रोच्चारकालः प्राणोऽभिधीयते । तरषट्कैश्च पलं षष्ट्या नाडीषष्ट्याऽऽर्द्धनं दिनम् ॥ १४ ॥ तत्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा । राशिसंक्रमणात् सौरो दर्शान्तश्चान्द्रमासकः ॥ १५ ॥ उदयादुदयं भानोर्मुदिनं मर्त्यलोकनम् । चान्द्रो मास: पितृदिनं कृष्णाष्टम्यर्धतो भवेत् ॥ १६ ॥
मकरादिराशिषट्क
मुदगयनं कर्कटादिगं याम्यम् ।
राशिद्दयार्क भोगात्
षट् त्वृतवः शैविरादयः क्रमशः ॥ १७ ॥
युगमानं सहस्रघ्ना
नखरामाब्धयः समाः ४३२०००।
तहशांभ- ४३२००० चतुर्षा च चतु सिद्धये कसं गुणः ॥ १८ ॥
Aho! Shrutgyanam